"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः
==विष्णुपुराणम्== ==विष्णुपुराणस्य विषयव्याप्तिः... नवीन पृष्ठं निर्मीत अस्ती |
(भेदः नास्ति)
|
१२:४१, १३ जून् २०११ इत्यस्य संस्करणं
विष्णुपुराणम्
विष्णुपुराणस्य विषयव्याप्तिः
इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते । क्षीरसागरमथनकथा, ध्रुव-प्रह्लादकथा, जडभरतस्य कथा च अत्र विद्यन्ते । मनु-मन्वन्तराणां निरूपणं, वर्णाश्रमधर्माणां, संस्काराणां, श्राद्धकल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र ऊर्वशी, ययातिः, रामः इत्यादीनां चरित्रं, कौरवपाण्डवानां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । कृष्णकथा विवृता अस्ति । इदं पुराणरत्नम् इति प्रसिद्धम् । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति । अत्र निरूपितः मौर्येतिहासः विश्वासयोग्यः इति विन्सेण्ट् स्मित् स्व लेखे उल्लिखितवान् अस्ति ।
भाषाशैली
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । आर्षप्रयोगाः अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । ध्रुवचरित्रं, प्रह्लादचरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते । श्रीकृष्णचरित्रम् अपि मनोरमं विद्यते ।
विषयविभागः
पराशरमुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लॊकाः विद्यन्ते ।
प्रथामांशः
अस्मिन् जगतः उत्पत्तिः, प्रजापतयः, देवताः, पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, विष्णोः महिमा च विवृता अस्ति ।
व्याख्यानानि=
अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।