"पुष्करनगरम्" इत्यस्य संस्करणे भेदः

[[File:Ghats at Pushkar lake, Rajasthan.jpg|thumb|पुष्करसरोवरस्य दृश्यम्, राजस... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[File:Ghats at Pushkar lake, Rajasthan.jpg|thumb|पुष्करसरोवरस्य दृश्यम्, राजस्थानम्]]
[[राजस्थानप्रान्तः|राजस्थानप्रान्ते]] [[अजमेरुनगरम्|मेरुनगर]]समीपे '''पुष्करनगरम्''' अस्ति । पुष्करं प्रसिद्धं [[तीर्थक्षेत्राणि|तीर्थ]]स्थलं वर्तते ।
 
==अत्रत्यानि मन्दिराणि==
पङ्क्तिः ६:
अत्र भगवतः ब्रह्मणः विश्वप्रसिद्धं मन्दिरम् अस्ति । विश्वे पुष्करनगरमात्रे एव [[ब्रह्मणः मन्दिरम्|ब्रह्मणः मन्दिरं]] वर्तते । प्राचीनवराहमन्दिरम् अपि पुष्करे अस्ति । अत्र अन्यानि अपि बहूनि मन्दिराणि सन्ति । तेषु रङ्गजीमन्दिरं प्रसिद्धम् अस्ति । पर्वतस्य उपरि गायत्रीमन्दिरम् अस्ति । समीपे अन्यस्मिन् पर्वते सावित्रीमन्दिरम् अपि अस्ति । तत्रैव अन्नपूर्णादेवीमन्दिरं चामुण्डादेवीमन्दिरम् अपि स्तः । पुष्करनगरं परितः पर्वताः सन्ति, मध्ये च विस्तृतं पवित्रं सरोवरं वर्तते । सरोवरस्य तटे एव पुष्करनगरम् अवस्थितम् अस्ति ।
[[File:Hills around Pushkar, turn green during the Monsoon.jpg|thumb|पुष्करं परितः पर्वतश्रेणयः]]
 
 
==अन्यानि प्रेक्षणीयस्थलानि==
पुराणेषु पुष्करतीर्थस्य माहात्म्यं वर्णितम् अस्ति । प्रतिवर्षं कार्तिकमासस्य पूर्णिमायाम् अत्र मेला भवति । पर्यटनदृष्ट्या पुष्करस्य बहुमहत्त्वम् अस्ति । अत्र बहवः पर्यटकाः आगच्छन्ति । अस्माकं दृष्ट्या पुष्करस्य धार्मिकं सांस्कृतिकं च महत्त्वं वर्तते । पुष्करस्मीपे कनिष्ठपुष्करं, मध्यमपुष्करम् अपि स्तः । समीपे एव भर्तृहरेः गुहा अपि अस्ति । किञ्चिद्दूरे गयाकुण्डम् अस्ति । पर्वतीयप्रदेशे चत्वारि देवीमन्दिराणि सन्ति - भीमादेवीमन्दिरं, चामुण्डादेवीमन्दिरं, नन्दासरस्वतीमन्दिरं, मृकण्डुमातृमन्दिरं च । तत्रैव चत्वारि भगवतः शिवस्य मन्दिराणि अपि सन्ति - कापालेश्वरमन्दिरम्, अटमटेश्वरमन्दिरं, पाण्डुकेशवमन्दिरं, वैद्यनाथमन्दिरं च । पुराकाले तत्र अनेके ऋषयः तपः आचरितवन्तः, तेषु प्रमुखाः सन्ति - [[मार्कण्डेयः]], [[विश्वामित्रः]], [[अगस्त्यः]], [[वामदेवः]], [[जमदग्निः]], [[गौतमः]] च । अतः एव एतेषां नाम्ना तत्र आश्रमाणि सन्ति । पञ्चपाण्डवानां तपःस्थली अपि तत्र वर्तते । नीलकण्ठमन्दिरं देवनारायणमन्दिरम् अपि पुष्करक्षेत्रे स्तः । जनाः त्रीणि पुष्कराणि परितः परिक्रमं कुर्वन्ति । मेलाकाले अत्र राजस्थानशासनेन उष्ट्राणां धावनस्पर्धा अपि आयोज्यते ।
 
[[वर्गः:भारतीयतीर्थक्षेत्राणि|पुष्करनगरम्]]
[[वर्गः:राजस्थानप्रान्तः|पुष्करनगरम्]]
[[वर्गः:प्रसिद्धानि नगराणि|पुष्करनगरम्]]
"https://sa.wikipedia.org/wiki/पुष्करनगरम्" इत्यस्माद् प्रतिप्राप्तम्