"पुरन्दरदासः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
[[File:Purandara.jpg|thumb|पुरन्दरदासः]]इदानीन्तन[[महाराष्ट्रम्|महाराष्ट्रराज्यस्य]] [[पुणे]]जनपदस्य [[पुरन्दरदुर्गम्|पुरन्दरदुर्गे]] '''पुरन्दरदासः''' क्रि.श १४८० तमे वर्षे जन्म प्राप्तवान् । एतस्य पितुः नाम वरदप्पः, मातुः नाम लक्ष्मम्म इति । एतस्य पिता बहु धनिकः आसीत् । पुरन्दरदासस्य पुरातं नाम श्रीनिवासनायकः अथवा शीनप्पनायकः इति । एतस्य पत्याः नाम सरस्वतीयम्म। एतयोः चत्वारः पुत्राः आसन् वरदप्पः, गुरप्पः, अभिनवप्पः, मध्वपतिः चेति । दासकूटजनाः एते । पुरन्दरदासः [[दासकूटः|दासकूटे]] अग्रगण्यः । नारदस्य अवतारः एषः इति जनाः विश्वसन्ति ।
एषः कथं पुरन्दरदासः अभवत् इति एका लघुकथा अस्ति । एतस्य पत्नी सरस्वतम्म उत्तमा सात्विका, उदारमनाः सदगुणी च आसीत् । पाण्डुरङ्गः(श्रीहरिः) निर्धनब्राह्मणस्य वेषं दृत्वा षण्मासान् यावत् शीनप्पनायकं ’दानं करोतु’ इति याचनां कृत्वा अन्ते जामिताम् अनुभूय सरस्वतियम्मायाः समीपं गतवान् । तदा सा करुणया स्वनासाभरणं दत्तवती । एतस्य नासाभरणस्य कारणतः शीनप्पनायकस्य मनसि वैराग्यम् आगत्य सः पुरन्दरदासः अभवत् इति कथा श्रूयते ।
पुरन्दरदासः [[व्यासरायः|व्यासरायस्य]] शिष्यः आसीत् । भक्तिरसेन पूरितानि अनुभवगीतानि रचितवान् । [[कर्णाटक|कर्णाटके]] सर्वत्र एतानि गीतानि गीत्वा भक्तिपन्थं प्रसारयितुं कारणीभूतः अभवत् । एतस्य पदयेषु पुरन्दरदासः इति अङ्कितम् अस्ति । पुरन्दरदासः शलिवाहन शक १४८६ तमे वर्षे रक्ताक्षिसंवत्सरे पुष्यमासस्य अमावास्या दिने स्वस्य ८४ तमे वर्षे दिवङ्गतः ।
"https://sa.wikipedia.org/wiki/पुरन्दरदासः" इत्यस्माद् प्रतिप्राप्तम्