"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
एतेन संघटनेन शिवराजस्य शत्रूणां भीतिरवर्धत । एतावत्पर्यन्तं सः एकः पर्वतीयमूषक इत्येव चिन्तयन्तः आसन् ते । इदानीं तु तस्य समीपॆ मन्त्रतन्त्रादिकम् अस्तीति, सः भूतो वा पिशाचो वा भवेदिति भावयन्ति स्म-। एतां सम्पूर्णां वार्तां श्रुत्वा औरङ्गजेबः लज्जया स्तम्भीभूतः । षयिस्तॆखानं दण्डयित्वा वङ्गप्रदेशं प्रेषितवान् ।
स्वराज्यनिर्माणार्थं, पदातिदल-नौकादलनिर्माणार्थं, राज्ये उत्तम-परिपालनरचनाय, विशिष्य शत्रुनिग्रहणार्थं धनम अत्यन्तमावश्यकम् । अतः अन्यमार्गो नास्तीति शत्रुभ्य एव धनं सम्पादनीयम् इति निश्चितवान् शिवराजः । औरङ्गजेबस्य कोशागारम् अपहर्तुं निश्चयः जातः । तेषु दिनेषु सूरतनगरं कुबेरनिवासः इति, धनिकानां निलयः इति च प्रवादः आसीत् । ततः एव शिवराजः आगण्यं धनम् आर्जितवान् ।
==मुघलचक्रवर्तिनः जालेःजालः==
शिवराजस्य चेष्टाः औरङ्गजेबस्य शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वादयत् सः । अतः किञ्चिदालोच्य् ‘सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते मीरजामहाराजं जयसिहं चितवान् ।
राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव जयसिंहॆन मिलित्वा संभाषणं कृत्वा औरङ्गजेबेन सह संभाषणार्थमपि अङ्गीकृतवान् ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्