"सत्त्वं रजस्तम इति..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''सत्त्वं रजस्तम इत... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:१२, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥


पदच्छेदः

सत्त्वं रजः तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥ ५ ॥

अन्वयः

महाबाहो ! सत्त्वं रजः तमः इति प्रकृतिसम्भवाः गुणाः । देहे अव्ययं देहिनं निबध्नन्ति ।

पदार्थः

प्रकृतिसम्भवाः = मायास्वरूपभूताः अपि जन्याः इव स्थिताः
अव्ययम् = अक्षयम्
देहिनम् = आत्मानम्
निबध्नन्ति = बध्नन्ति ।

तात्पर्यम्

अर्जुन ! सत्त्वं रजः तमः इति प्रकृतेः स्वरूपभूताः गुणाः । ते च प्रकृतितः जाताः इव भासमानाः शरीरे आत्मानं बध्नन्ति ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=सत्त्वं_रजस्तम_इति...&oldid=139551" इत्यस्माद् प्रतिप्राप्तम्