"अप्रकाशोऽप्रवृत्तिश्च..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''अप्रकाशोऽप्रवृत्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:०४, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

पदच्छेदः

अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च तमसि एतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

अन्वयः

कुरुनन्दन ! अप्रकाशः अप्रवृत्तिः च प्रमादः मोह एव च एतानि तमसि विवृद्धे जायन्ते ।

पदार्थः

कुरुनन्दन = अर्जुन !
अप्रकाशः = अविवेकः
अप्रवृत्तिः = प्रवृत्त्यभावः
प्रमादः = अनवधानम्
मोहः = मन्दत्वम्
तमसि = तमोगुणे
विवृद्धे = प्रवृद्धे
जायन्ते = भवन्ति ।

तात्पर्यम्

अर्जुन ! पुरुषस्य यदा विवेकभ्रंशः शास्त्रविहितकर्मसु अप्रवृत्तिः, कार्ये अनवधानम्, भ्रान्तिः निद्रा इत्यादयः भवन्ति तदा तमोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः