"कर्मणः सुकृतस्याहुः..." इत्यस्य संस्करणे भेदः
Content deleted Content added
thumb|right|300px|गीतोपदेशः :'''कर्मणः सुकृतस्याह... नवीन पृष्ठं निर्मीत अस्ती |
(भेदः नास्ति)
|
०७:३५, २१ अक्टोबर् २०११ इत्यस्य संस्करणं
- कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
- रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥
पदच्छेदः
कर्मणः सुकृतस्य आहुः सात्त्विकं निर्मलं फलम् रजसः तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ १६ ॥
अन्वयः
सुकृतस्य कर्मणः निर्मलं सात्त्विकं फलम् आहुः । रजसः फलं तु दुःखम् । तमसः फलम् अज्ञानम् ।
पदार्थः
- सुकृतस्य कर्मणः = साधु विहितस्य कर्मणः
- निर्मलम् = स्वच्छम्
- सात्त्विकम् = सत्त्वसम्पन्नम्
- फलम् = सुखरूपफलम्
- आहुः = ब्रुवन्ति ।
तात्पर्यम्
साधु विहितस्य कर्मणः सत्त्वप्रधानं स्वच्छं सुखं फलं कथयन्ति । रजोगुणस्य दुःखं तमसस्तु अज्ञानम्।