"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (2) using AWB
(लघु) clean up, replaced: ऎ → ऐ (4) using AWB
पङ्क्तिः २६:
#[[कार्ष्णाजिनिः]]
#[[बादरिः]]
#[[ऐतिकायनः]]
#[[ऎतिकायनः]]
#[[कामुकायनः]]
#[[लाबुकायनः]]
पङ्क्तिः ८४:
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्” (जै० सू०- ३-३-१४) इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषटप्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्या स्यात् । अतः पारदौर्बल्य मर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सवेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गदयः सर्वे दुर्दलाः भविष्यन्ति ।
 
श्रुतिः द्विःप्रकारात्मिका अस्ति –एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऎन्द्रया–ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि मिलति । “श्योनं ते सदनं कृणोति” (तै० ब्रा० ३-६) इति ब्राह्मण वाक्यानुसार मन्त्रार्थ दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।
 
अर्थप्रकाशन सामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसार भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम श्योनं त इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परम्परान्वितार्थ पदानां यः समूहः तत् बाक्यमित्युच्यते । देवस्य त्वा इति वाक्ये अग्नये जुष्टं इति भागस्यास्य निर्वापरुपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितमिंगेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमान क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।
पङ्क्तिः ९०:
लिंगास्यानुमापक वाक्यमपि द्विविधम्-साक्षादनुमितभेदेन वाक्यस्य साक्षादुदाहरणं देवस्य त्वा इति । अन्यस्योदाहरणम् –“समिधो यजति” इत्यस्यां श्रुतौ इष्टविशेषनिर्देशाभावात् यागेनानेन कस्याः भावना करणीया इत्याकांक्षायाम्, एवमेव ‘दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्’ इत्यस्मिन्नपि वाक्य कथं भावयेत् इत्याकांक्षायाम् इमे द्वे आकांक्षे यत्र प्रतिपादिते स्तः तत्प्रकरणम् भवतीति हेतोः तदेवात्र वाक्यद्वययोः प्रमाणं भवति । प्रकरणमेतद् द्वयोस्तयोः एकवाक्यतां सम्पादयति । अर्थात् प्रकारणेन अनुमीयते तयोः एकवाक्यतात्मकः अर्थावबोधः , इति कृत्वा “समिधो यजति” इति वाक्यं लिङ्गापेक्षया दुर्बलम् ।
 
उभयाकांक्षा यत्र तत्प्रकरणमित्युच्यते । एतदपि द्विविधम्-साक्षात् श्रुतम्, अपरमनिमितं चेति । प्रथमस्योदाहरणं पूर्वमेव प्रतिपादितम् । द्वितीयस्य- ‘ऎन्द्राग्नमेकादशकपालं‘ऐन्द्राग्नमेकादशकपालं निर्वपेत्’ (तै० स० २-२-११) इत्यादिना इष्टविधानं क्रियते । “इन्द्राग्नी रोचना दिवः (तै० सं ४-२-११)इत्यादि मन्त्रानुसार यथासंख्यपाठानुरोधेन यथाक्रम विनियोगोऽपि उक्तः । एवं तत्तद्वाक्यं तत्तत् स्थानविशेषेण एकवाक्यत्वं भजते इत्यतः स्थानानुमानेन प्रकरणार्थः निश्चीयते । एवं प्रकरणार्थः वाक्ये, वाक्यं लिङ्गे लिंङ्ग श्रुतौ इति परम्परया प्रकरणार्थस्य विनियोगात् वाक्यापेक्षया प्रकरणं दुर्बलं भवति
 
उभयाकांक्षायाः अनुमापकं स्थानप्रमाणमपि द्विविधम्-साक्षादेकम्, अन्यत् समाख्यया अनुमितं चेति । समाख्या नाम योगबलम् अर्थात् अन्वर्थता इत्युच्यते । स्थानस्य साक्षादुदाहरणं प्रकरणे प्रतिपादितम् । अन्यानुमितस्योदाहरणम् –हौत्रम्, औदगात्रम् इत्यादि । होतरिदं हौत्रम् इति योगबचेन हौत्रादिसमाख्यया यल्लब्ध कर्म तत् होतुः पुरुषस्य अनुष्ठानयोग्यमिति अनुमीयते । समाख्या सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्भन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धस्य सिद्ध्यर्थं सन्निधिपाठरुपक्रमस्य कल्पना क्रियते । अनुमानेन पाठक्रमे सिद्धे सतितेन उभयाकांक्षायाः अनुमानं क्रियते । तेनानुमानेन एकवाक्यतायाः सिद्धिः इति हेतोः षट प्रमाणेषु अन्तिमत्वेन दुर्बला भवति इयं समाख्या ।
पङ्क्तिः १६४:
 
==प्रमेयतत्त्वसमीक्षा==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऎकमत्यंऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्