"विकिपीडिया:निर्वाचितलेखः" इत्यस्य संस्करणे भेदः

आर्यभटः भारतवर्षः ग्यानविग्यानापरम्परायाः अ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
आर्यभटः
भारतवर्षः ग्यानविग्यानापरम्परायाः अमूल्यॊ निधिरस्ति। एषा परंपरा भारतीयॆः बुधॆः सम्पॊषिता। एतेष्वेव मनीषिषु आर्यभटः अग्रगण्यः।
दशमलव पध्दत्याः प्रारम्भिकः प्रयोक्ता आर्यभटेन गणितशास्त्राय नवा दिशा प्रदत्ता। तदानीं सः तत्कालीन रूढिवादिनां विरोधमपि असहत। वस्तुतः गणितशास्त्रमपि एकं विग्यानमस्ति एतत् प्रदर्शितमार्यभटेन। गणितीय गणनापध्दत्या आकाशीय पिण्डानां गतिः तेनॆव प्रवर्तिता।
आर्यभटः भारतीयेतिहासे स उच्चशिखरो वर्तते, यः अस्माकं भारतस्य कृते अतीव गॊरवास्पदम् अभिमानास्पदं च वर्तते। एतस्मात् पूर्वं न केनापि गणितशास्त्रे एतादृशमन्वेषणं कृतम्।
आर्यभटः अश्मकाचार्यः नाम्ना अपि ख्यातो वर्तते। एतदेव कारणं विद्यते यद् अस्य जन्मविषये अनेके विवादाः सन्ति। केचन विद्वांसः आर्यभटं पाटलिपुत्रस्य कथयन्ति केचन च महाराष्ट्र्स्य इति वदन्ति।
 
भारतीयज्यॊतिषशास्त्रम्-वॆदिकयुगे यग्यस्य कालः अर्थात् शुभमुहुर्तस्य ग्यानाय ज्योतिषशास्त्रस्य समुद्भवः संजातः। कालान्तरेण अस्यान्तर्गते ग्रहाणां संचारः, वर्षः, मासः, पक्षः, वारः,तिथिः,घंटादीनां विषये गहनाध्ययनं क्रियमाणमासीत्। लगधः,आर्यभटः, वराहमिहिरः, ब्रह्मगुप्तः, भास्कराचार्यः,बाल गंगाधर तिलकः,रामानुजन्, आदिनः अस्माकं देशस्य प्रमुखाः ज्योतिषशास्त्रिणः सन्ति।
आर्यभटीयम्,सॊरसिध्दान्तः,बृहत्संहिता, लीलावतीम, पंचसिध्दान्तिका इत्यादयः ज्यॊतिषशास्त्रस्य प्रमुखाः ग्रन्थाः सन्ति।
 
आर्यभटीयम्-आर्यभटेन ४९९ तमे वर्षे एषः ग्रन्थः रचितः। एष ग्रन्थः २० आर्या छन्दॆः रचितः । अस्मिन् ग्रहाणां गणनार्थं कलि संवत्(४९९ ई तमे वर्षे ३६००कलि संवत्) इति निश्चितम् ।
 
गणितज्योतिषम्-संख्यायाः माध्यमेन यत्र कालगणना भवेत्,तदेव गणितज्योतिषम्। ज्योतिषशास्त्रस्य त्रिषु विधासु यथा-सिध्दान्तः, फलितः, गणितश्च एतेषु गणितः सर्वाधिकः प्रमुखः वर्तते।
फलितज्योतिषम्-अस्यान्तर्गते ग्रहनक्षत्रादीनां स्थित्याधारे भाग्यकर्मादीनां विवेचनं क्रियते। आर्यभटेन अस्य विरोधः कृतः,स अस्मिन् न विश्वसिति स्म।
वेधशाला- ग्रहनक्षत्रादीनां गतेः स्थितेश्च अवगमनं यत्र गणनापध्दत्या यान्त्रिकविधिमाधारीकृत्य गृह्यते सा वेधशाला भवति ।आर्यभटस्य वेधशाला पाट्लिपुत्रे आसीत्।
 
सिध्दान्तशास्त्री गणितस्य ग्याता,
आविष्कृतो येन दशमलवश्च।
आर्यभटीयं ग्रन्थस्य कर्ता,
प्रदीप्यते स इव भास्करं दिक् ॥
 
गणितग्यः महान् योस्ति शून्यसंख्याप्रवर्तकः।
आर्यभटं तं वन्दे भूत्वा भावान्वितो सदा ॥
 
लेखकः
आचार्यः दयानन्दः शास्त्री (आर्य)
लातूर
"https://sa.wikipedia.org/wiki/विकिपीडिया:निर्वाचितलेखः" इत्यस्माद् प्रतिप्राप्तम्