"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
कतिचनोपनिषदो गद्यात्मिकाः, कतिचन पद्यात्मिकाः कतिचन गद्यपद्योभयात्मिकाश्च । आसामुपनिषदां रचनाकालो भिन्नभिन्नः , परं प्रसिध्दाः कतिचनोपनिषदो बुध्दकालात्प्राचीन एवेति सर्वसम्मतम् । उपनिषदो भारतीयाध्यात्मविद्याया ज्वलन्ति रत्नानि । महर्षयो यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन् तानि सर्वाणि तत्त्वान्यत्र वर्णितानि । सप्तदशशतके दाराशिकोहनामा शाहजहांनाम्नः यवनसम्राजः पुत्रः ५० सङ्ख्याकाः उपनिषदः पारसीभाषायां ब्राह्मणपण्डितानां साहाय्येनानुवादितवान् ।
‘शोपेन होवेर’ (Shopen Hower) नामा प्रसिध्दो वैदेशिको दार्शनिक उपनिषदः स्वगुरुषु गणयति स्म । सम्प्रत्यपि पाश्चात्त्येषूपनिषदां महान् प्रभावो विद्यते, प्रायः सर्वारवेव सभ्यभाञास्वासामुपनिषदामनुवादो जातः । भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता ब्राह्मणम् आरण्यकम् '''उपनिषत्''' इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः इति ख्याता च ।
==उपनिषद्रचनाकालः==
 
भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता ब्राह्मणम् आरण्यकम् '''उपनिषत्''' इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः इति ख्याता च ।
==उपनिषन्नाम का ?==
उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यासङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्