"पुराणम्" इत्यस्य संस्करणे भेदः

(लघु) पुराणम् इत्येतद् पुराणानि इत्येतत् प्रति चालितम्।
पुराणम् इत्येतद् पुराणानि इत्येतत् प्रति चालितम्।
पङ्क्तिः १:
#पुनर्निदेशन [[पुराणानि]]
[[Image:Ashta-Matrika.jpg|thumb|300px| रक्तबीजासुरेण सह योद्धुं प्रस्थिता दुर्गा, मार्कण्डेयपुराणम्]]
संस्कृतस्य [[धार्मिकसाहित्यम्|धार्मिकसाहित्ये]] प्रमुखपात्रं वहति पुराणसाहित्यम् । '''पुराणम्''' इत्यस्य प्रमुखतया अर्थद्वयं दृश्यते ।
: १. पुरा भवम् – पुरा “ट्युल्” (४.३.२३)
“उद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः” उ.रा. २-२९ । “पुराणमित्येव न साधु सर्वम्” माल. १-२
: २. पुरापि नवः रा.भा., शां.भा.
: “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इत्येतस्य वचनस्य अनुसारं वेदेषु उक्तान् कठिनविचारान् सुलभरीत्या जनान् बोधयितुं बहुभिः महर्षिभिः रचिताः ग्रन्थाः एते ।
==पुराणस्य लक्षणानि==
'पुराणं पञ्चलक्षणम्' इति वदति कोशकारः [[अमरसिंहः]] |

::::सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
::::सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं तथा ॥ - [[विष्णुपुराणम्]] ३।६।२४

# सर्गः (जगतः उगमः)
# प्रतिसर्गः (अवनतिः पुन्स्सृष्टिः)
# वंशः (ऋषिदेवतादीनां जीवनम्)
# मन्वन्तरम् (मानवजातेः उगमः, मनूनां राज्यभारः)
# वंशानुचरितम् (सूर्यचन्द्रवंशीयराजानां चरित्रम्)

==महापुराणानि==
महापुराणानि अष्टादश । एतानि [[वेदव्यासः|वेदव्यास]]महर्षिणा रचितानि इति प्रतीतिः ।

'''ब्राह्मं पाद्मं वैष्णवं च शैवं च लैङ्गं च गारुडम् ।'''

'''नारदीयं भागवतमाग्नेयं स्कन्दमेव च ॥'''

'''भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।'''

'''मात्सयं कौर्मं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ।'''

'''अष्टादशपुराणानि व्यासोक्तानि विदुर्बुधाः ॥'''

::::अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।
::::भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ मत्स्यपुराणम् (५३-७०)

तानि -
:१ [[मत्स्यपुराणम्]] २ [[मार्कण्डेयपुराणम्]] ३ [[भागवतपुराणम्]]
[[File:Krishna Holding Mount Govardhan - Crop.jpg|thumb| गोवर्धनोद्धारी कृष्णः, भागवतपुराणम्]]
:४ [[भविष्यत्पुरानम्]] ५ [[ब्रह्माण्डपुराणम्]] ६ [[ब्रह्मवैवर्तपुराणम्]]
:७ [[ब्रह्मपुराणम्]] ८ [[वामनपुराणम्]] ९ [[वराहपुराणम्]]
:१० [[विष्णुपुराणम्]] ११ [[वायुपुराणम्]] १२ [[अग्निपुराणम्]]
:१३ [[नारदपुराणम्]] १४ [[पद्मपुराणम्]] १५ [[लिङ्गपुराणम्]]
:१६ [[गरुडपुराणम्]] १७ [[कूर्मपुराणम्]] १८ [[स्कान्दपुराणम्]]
एतेषां पुराणानां नामानि स्मर्तुं कश्चन श्लोकः विद्यते -
:::: म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम् ।
:::: अ-ना-प-लिङ्-ग-कू-स्कानि पुराणानि प्रचक्षते ॥
अष्टादशपुराणानां प्रथमाक्षरात् अयं श्लोकः रचितः अस्ति ।

==अष्टादश-पुराणानां श्लोकसंख्या अत्र निरूप्यते -==
:१ तन्मत्स्यमिति जानीध्वं सहस्राणि चतुर्दश | १४००० श्लोकाः
:२ पुराणं नवसाहस्रं मार्कण्डेयमिहोच्यते | ९००० श्लोकाः
:३ तद्भागवतमुच्यते, अष्टादशसहस्राणि | १८००० श्लोकाः
:४ चतुर्विंशत्सहस्राणि तथा पञ्चशतानि च |
: भविष्यचरितप्रायं भविष्यं तदिहोच्यते | २४५०० श्लोकाः
:५ ब्राह्म त्रिदशसाहस्रं पुराणं परिकीर्त्यते | १३००० श्लोकाः
:६ तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते | १८००० श्लोकाः
:७ तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् | १२२०० श्लोकाः
:८ पुराणं दशसाहस्रं वामनं परिकीर्तितम् | १०००० श्लोकाः
:९ चतुर्विंशत्सहस्राणि तद् वाराहमिहोच्यते | २४००० श्लोकाः
:१० आग्नेयं तच्च षोडशसाहस्रम् | १६००० श्लोकाः
:११ चतुर्विंशत्सहस्राणि वायवीयम् | २४००० श्लोकाः
:१२ त्रयोविंशतिसाहस्रं वैष्णवं परिकीर्त्यते | २३००० श्लोकाः
:१३ पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते | २५००० श्लोकाः
:१४ पाद्मं तु पञ्चपञ्चाशत्सहस्राणीह् कथ्यते | ५५००० श्लोकाः
:१५ तदेकादशसहस्राणि गारुडं तदिहोच्यते | १८००० श्लोकाः
:१६ अष्टादशसहस्राणि गारुडं तदिहोच्यते | १८००० श्लोकाः
:१७ कूर्मरूपी जनार्दनः, अष्टादशसहस्राणि | १८००० श्लोकाः
:१८ स्कन्दं नाम् पुराणञ्च ह्येकाशीतिर्निगद्यते | ८११०० श्लोकाः

==पुराणानां विषयव्याप्तिः==
वेदोपनिषत्सु विद्यमानानि गहनतत्त्वानि कथानां द्वारा बोधनम् इतेतत् पुराणानां प्रमुखं प्रयोजनम् । एतत् अतिरिच्य भारतस्य प्राचीनयुगस्य इतिहासस्य पुनर्निर्माणे अपि एतत् साहित्यं महता प्रमाणेन उपकरोति इत्येतत अवश्यं स्मर्तव्यम् ।
अष्टादशसु महापुरणेषु एकैकस्मिन् अपि भारतस्य विविधस्थलानां परिचयः, विविधकालस्य च निरूपणं दृश्यते । इतिहासे प्रसिद्धानां राजवंशानां विवरणं, राज्ञां विजयपराभवानां विवरणं च उपलभ्यते । तस्मिन् काले प्रसिद्धानां बहु जनानां प्रस्तावः दृश्यते । शुङ्ग-नन्द-मौर्य-इक्ष्वाकु-पुरूरववंशीयानां चरित्रं दृश्यते ।
भविष्यत्पुराणे [[चन्द्रगुप्तः|चन्द्रगुप्त]]-[[विक्रमादित्यः|विक्रमादित्य]]-[[पाणिनिः|पाणिनि]]-[[पतञ्जलिः|पतञ्जलि]]-[[कबीरदासः|कबीरदास]]-कृष्णचैतन्यादीनां विवरणं लभ्यते ।
ब्रह्माण्डपुराणे शातवाहन-आन्ध्रवंशस्य राज्ञां विवरणेन सह तस्य कालस्य राजनैतिकपरिस्थितेः उल्लेखाः अपि दृश्यन्ते । तेन सह धार्मिकपरिस्थितिः अपि निर्दिष्टा अस्ति । शैव-वैष्णवसम्प्रदाययोः विभिन्नता, देवालयानां माहात्म्यं, व्रतानां विवरणं, पुण्यक्षेत्राणां महिमा च वर्णिता दृश्यते ।
स्कान्दपुराणे सहस्राधिकानां पुण्यक्षेत्राणां भौगोलिक-ऎतिहासिकविवरणम् उपलभ्यते ।
चातुर्वर्ण्यव्यवस्था, देशाचार-कुलाचाराः, नित्यनैमित्तिककर्माणि, [[संस्काराः]], पर्वाचरणं, स्वामि-भृत्यसम्बन्धः, राज-प्रजासम्बन्धः, पितृ-पुत्रसम्बन्धः - इत्यादयः विषयाः अत्र निरूपिताः सन्ति ।
अग्निपुराणे वास्तुशिल्प-वर्णचित्र-नाट्यकलायाः प्रस्तावः अस्ति । [[अश्वचिकित्सा]]-[[हस्तिचिकित्सा]]-सर्पदष्टमन्त्रचिकित्सा-बालग्रहचिकित्सा च विवृता अस्ति । नारदपुराणे ज्योतिषस्य निरूपणमस्ति । [[आयुर्वेदः|आयुर्वेद]]स्य इतिहासनिर्माणे ब्रह्माण्डपुराणं सहकरोति ।
एवं पुराणानां विषयविस्तारः अस्ति सुमहान् ।
==पुराणविभागः==
महापुराणानि द्विधा विभज्यते ।
===सात्त्विक-राजस-तामसपुराणानि===

:::वैष्णवं नारदीयं च तथा भागवतं शुभम् ।
:::गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ।|
::: सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ।|
विष्णु-नारद-भागवत-गरुड-पद्म-वराहपुराणानि सात्त्विकानि ।

:::ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च ।
:::भविष्यं वामनं ब्राह्मं राजसानि निबोधत ।|
ब्रह्माण्ड-ब्रह्मवैवर्त-मार्कण्डेय-भविष्य-वामन-ब्राह्मपुराणानि राजसानि ।

:::मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
:::आग्नेय्ञ्च षडेतानि तामसानि निबोधत ।|
मत्स्य-कूर्म-लिङ्ग-शैव-स्कान्दपुराणानि तामसानि ।|
[[Image:Dwarka.jpg|left|thumb| द्वारिकानगरी, हरिवंशः]]

::सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः
::राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ।
::तद्वद् अग्नेश्च माहात्म्यं तामसेषु शिवस्य च
::संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥

सात्त्विकपुराणेषु हरेः माहात्म्यं, राजसपुराणेषु ब्रह्मणः माहात्म्यं, तामसपुराणेषु शिवस्य माहात्म्यं च वर्णितं दृश्यते । सरस्वत्याः पितॄणां च स्तुतिः यत्र कृतः अस्ति तानि संकीर्णपुराणानि इति मत्स्यपुराणे उल्लेखः दृश्यते ।

===ब्रह्म-विष्णु-शिवपुराणानि===
====ब्रह्मपुराणानि====
# [[ब्रह्मपुराणम्]]
# [[ब्रह्माण्डपुराणम्]]
# [[ब्रह्मवैवर्तपुराणम्]]
# [[मार्कण्डेयपुराणम्]]
# [[भविष्यपुराणम्]]
====विष्णुपुराणानि====
# [[विष्णुपुराणम्]]
# [[श्रीमद्भागवतपुराणम्]]
# [[नारदेयपुराणम्]]
# [[गरुडपुराणम्]]
# [[पद्मपुराणम्]]
# [[अग्निपुराणम्]]
====शिवपुराणानि====
# [[शिवपुराणम्]]
# [[लिंगपुराणम्]]
# [[स्कन्दपुराणम्]]
# [[वायुपुराणम्]]
===महापुराणानि===

{| class="wikitable sortable"

! पुराणस्य नाम !! श्लोकसंख्या !! टिप्पणी

| [[अग्निपुराणम्]] || १५,४०० श्लोकाः ||

| [[भागवतपुराणम्]] || १८,००० श्लोकाः || सर्वाधिक-श्रव्यपुराणम्। सर्वेषु पुराणेषु श्रेष्ठतमम् इति कथ्यते<ref>{{Harvnb|Monier-Williams|1899|p=752}}, column 3, under the entry ''Bhagavata.''</ref> भगवतः कृष्णस्य महिमावर्णनं तथा भक्तिकथा [[भक्ति आन्दोलनः]]<ref>{{Harvnb|Hardy|2001}}</ref>

| [[भविष्यपुराणम्]] || १४,५०० श्लोकाः ||

| [[ब्रह्मपुराणम्]] || २४,००० श्लोकाः || उदाहरणम्

| [[ब्रह्माण्डपुराणम्]] || १२,००० श्लोकाः || ललितसहस्रनामग्रन्थे अस्ति।

| [[ब्रह्मवैवर्तपुराणम्]] || १८,००० श्लोकाः ||

| [[गरुडपुराणम्]] || १९,००० श्लोकाः ||

| [[हरिवंशपुराणम्]] || १६,००० श्लोकाः || इतिहासः इति मन्यते ।

| [[कूर्मपुराणम्]] || १७,००० श्लोकाः ||

| [[लिङ्गपुराणम्]] || ११,००० श्लोकाः ||

| [[मार्कण्डेयपुराणम्]] || ९,००० श्लोकाः || [[देवीमहात्म्यम्]], शक्त्याः वर्णनम्

| [[मत्स्यपुराणम्]] || १४,००० श्लोकाः || उदाहरणम्

| [[नारदपुराणम्]] || २५,००० श्लोकाः || उदाहरणम्

| [[पद्मपुराणम्]] || २४००० श्लोकाः || उदाहरणम्

| [[स्कन्दपुराणम्]] ||८१,१०० श्लोकाः || दीर्घतमः

| [[वामनपुराणम्]] || १०,००० श्लोकाः ||

| [[वराहपुराणम्]] || १०,००० श्लोकाः ||

| [[वायुपुराणम्]] || २४,००० श्लोकाः ||

| [[विष्णुपुराणम्]] || २३,००० श्लोकाः ||

==सन्दर्भ==
{{reflist}}

[[वर्गः:पुराणानि]]

[[bn:পুরাণ]]
[[ca:Purana (hinduisme)]]
[[cs:Purány]]
[[de:Puranas]]
[[en:Puranas]]
[[es:Purana]]
[[fa:پوراناها]]
[[fi:Puranat]]
[[fr:Purana]]
[[hi:पुराण]]
[[hu:Puránák]]
[[id:Purana]]
[[it:Purāṇa]]
[[ja:プラーナ文献]]
[[ka:პურანები]]
[[kn:ಪುರಾಣಗಳು]]
[[ko:푸라나]]
[[lt:Puranos]]
[[ml:പുരാണങ്ങൾ]]
[[ne:पुराण]]
[[new:पुराण]]
[[nl:Purana]]
[[nn:Purana]]
[[no:Puranaene]]
[[pl:Purany]]
[[pt:Purana]]
[[ru:Пураны]]
[[simple:Purana]]
[[sk:Purány]]
[[sv:Puranas]]
[[ta:புராணம்]]
[[te:పురాణములు]]
[[th:ปุราณะ]]
[[uk:Пурани]]
[[zh:往世书]]
"https://sa.wikipedia.org/wiki/पुराणम्" इत्यस्माद् प्रतिप्राप्तम्