"संस्काराः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
# [[गर्भाधानसंस्कारः]]
# [[पुंसवनसंस्कारः]]
गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वं सम्पादनहेतोः पुंसवननाम्नः संस्कारः भवति । अत्र विभिन्नदेवानां प्रार्थना भवति । यया प्रार्थनया गर्भस्थशिशुः पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत । अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं, भगवतः विष्णोः पूजनं च कर्तव्यम् ।
 
# [[सीमन्तोन्नयनसंस्कारः]]
गर्भधारणानन्तरं चतुर्थे मासे सीमन्तोन्नयनसंस्कारः भवति । अत्रावसरे पतिपत्न्योः केशानां प्रसाधनं वा संवर्धनं च करणीयम् । तयोः कृते उत्सवरूपोयं संस्कारः । अत्र संस्कारः, नृत्यं, गानं, वादनम् इत्यादि भवति । पत्न्याः मनोरञ्जनार्थं सोमस्य स्तुतिः भवति । यदा चन्द्रः पुरुषवाचकनक्षत्रेण युक्तः भवति तदा एव एषः संस्कारः भवति ।
 
# [[जातकर्मसंस्कारः]]
जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति । एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानरः अग्नेः स्तुतिः भवति । तथा च आहुतिः अपि देयं भवति । येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति ।
 
# [[नामकरणसंस्कारः]]
अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति ।
==बाह्यसम्पर्कतन्तुः==
* [http://www.hinduculture.info HinduCulture]
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्