"हिमालयः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराः अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः (हिम+आलयः) इत्यर्थः ।
==जीवपरिसरविज्ञानम्==
*हिमालयस्य उगमः विकासश्च -प्रपञ्चे अत्यन्तमुन्नतपर्वतश्रेणिषु हिमालयोऽपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया(panjiya) भूभागः द्विधा विभक्तः भूत्वा इण्डो-आस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये संघट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यदभारतमस्ति सः प्रदेशः ‘टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् ।
इण्डो-आस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं पलवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर्(1/2 cm) पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति ।
[[File:Cedrus deodara Kullu 3.jpg|thumb|]]
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्