"अलङ्काराः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br>
अयं [[काव्यशास्त्र]]स्य विषयः अस्ति ।
 
अलङ्कारशब्दस्य व्युत्पत्तिः डुकृञ् (कृ)-धातुना अण् प्रत्ययं कृत्वा भूषणार्थे अलं-शब्देन समासं कृत्वा भवति । अलङ्कारः काव्यस्य भूषणं भवति यथा अङ्गद-कुण्डलादयः मनुष्यस्य भूषणानि भवन्ति । तथैव ते काव्यस्य सौन्दर्योत्कर्षहेतवः भवन्ति । अलङ्कारस्योपरि अनेकैः आचार्यैः विशदः विमर्शः कृतः । काव्यस्य सौन्दर्यविधायकेषु तत्त्वेषु अलङ्कारस्य कियत् स्थानम् कियत् प्राधान्यं वा इति विषये आचार्येषु मतभेदः वर्तते। परन्तु काव्योत्कर्षे अलङ्काराणाम् अत्यधिकं महत्त्वम् अस्ति इति मतं सर्वे अङ्गीकुर्वन्ति । काव्यस्य सौन्दर्यविधायकतत्त्वेषु कस्य तत्त्वस्य प्राधान्यम् आत्मतत्त्वत्वं वा इति मतमधिकृत्य काव्यशास्त्रस्य अनेके सम्प्रदायाः विकसिताः । [[अलङ्कारसम्प्रदायः]] अपि एतेषामेकः अस्ति । सम्प्रदायानां, तेषां प्रवर्तकाचार्याणां, प्रवर्तकग्रन्थानां च नामानि एतानि सन्ति -
 
Line १४ ⟶ १५:
 
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
==* [[शब्दालङ्कारः]]==
==* [[अर्थालङ्कारः]]==
 
ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा उच्यन्ते । [[अनुप्रासः]], [[यमकः]], [[श्लेषः]] च शब्दालङ्काराः सन्ति ।
==[[अर्थालङ्कारः]]==
# [[उपमालङ्कारः]]
ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः उच्यन्ते । [[उपमा]], [[रूपकम्]], [[उत्प्रेक्षा]], [[दृष्टान्तः]] इत्यादयः अर्थालङ्काराः सन्ति । [[श्लेषः]] शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति ।
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्