"बसवकल्याणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Basava Kalyan Fort 1.2.JPG|thumb|बसवकल्याणस्य दुर्गः]]
बसवकल्याणस्य प्रभावः कर्णाटकस्य इतिहासस्योपरि महान् अस्ति । एतस्य ग्रामस्य पुराणपृष्ठभूमिका अस्ति । ऎतिहासिकपृष्ठभूमिका अपि अस्ति । सहस्राधिकानां शिवशरणानां पादधूलि एषः ग्रामः पवित्रः जातः अस्ति । चालुक्यानां राजधानी इत्यपि नाम अस्ति । कळचूरी राजानामपि राजधानी आसीत् । कल्याणि, कल्याणपुरम् इत्यपि नाम अस्ति । एषः ग्रामः बीदरतः ९ कि.मी. दूरे अस्ति ।
कल्याणे चालुक्याः, देवगिरौ यादवाः तोगलकाः, बह्मनि, बरीदशाही, आदिलशाही, मोगलाः, मराठाः इत्यादयः शासनं कृतवन्तः । अत्रत्यं लघु दुर्गं वास्तुदृष्ट्या महत्वपूर्णम् अस्ति ।
 
[[File:Basava Kalyan Fort 1.2.JPG|thumb|बसवकल्याणस्य दुर्गः]]
==इतिहासः==
कल्याणचालुक्येषु प्रसिध्दः राजा षष्ठः विक्रमादित्यः । एतस्य कालः सुवर्णयुगम् इति कथ्यते । विक्रमशकस्य आरम्भः २६-२-१०७७ तः अभवत् । एतस्मिन् काले बहिर्भागेभ्यः, अन्यदेशेभ्यः पण्डिताः, पामराः, राजश्रयार्थम् आगच्छन्ति स्म । काश्मीरतः आगतः बिल्लणकविः संस्कृते विक्रमाङ्कदेवचरितम् इति काव्यम् अत्रैव लिखितवान्, एतेन मिताक्षरम् इति शासनं रूपयितुं साध्यमभवत् ।
"https://sa.wikipedia.org/wiki/बसवकल्याणम्" इत्यस्माद् प्रतिप्राप्तम्