"अक्षि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
==सर्वेन्द्रियाणां नयनं प्रधानम्==
नयनेन्द्रियं मानवस्य प्रधानं ज्ञानकारणम्‌ । दृष्टवा वयं जगज्जानीमः । तदाधारेणैव सकलम्‌ अन्यद्‌ विद्मः । प्रकृत्या दत्तेषु वरेषु नयनं श्रेष्ठत्म्‌ । तद्विना अन्धाः कियत्‌ कषटम्‌ अनुभवन्तीति सर्वे विदन्ति । एतेषां कष्टं विदद्भिः जनैः स्वीयानि नयनानि संरक्षणीयानि । एतदर्थं नेत्ररोगज्ञानां साहाय्यं प्राप्तव्यम्‌ । प्रथमतो नयनरोगाणां कारणं निवारणीयम्‌ । मधुमेह एव प्रथमः शत्रुरिति वैद्या वदन्ति । रक्ते शर्करा नियन्त्रणीया । अन्यथा अक्षिरोग उल्बणो भविष्यति । प्रारम्भवेलायाम्‌ एव यदि परीक्षा वैद्यैः करिष्यते, तर्हि चिकित्सा सुलभा । रोगस्य उल्बणावस्थायां चिकि त्सा क्लिष्टा भविष्यति । तत्रापि विलम्बः क्रियते चेत्‌ , पूर्णतया आन्ध्यम्‌ एव भवेत्‌ । एवं कस्यापि लोकेमा भूत्‌ । लोके बहवो जन्मान्धाः सम्भवन्ति । तेभ्यो नयनदानं कर्तुं शक्यते नेत्रवद्भिः । मृतस्य नयनं निष्कास्य अन्यस्य मुखे योजयितुं वैद्याः शक्नुवन्ति । दृष्टिदानं महादानम्‌ । एवं दानं कृतवन्तः पुण्यं लभन्ते । तेषां नेत्रम्‌ अन्यत्र जीविष्यति । तथा कर्तुं धन्वन्तरिस्सर्वेभ्यः प्रेरणां ददातु ।
 
[[चित्रम्:Schematic diagram of the human eye en.svg|right|thumb|'''नेत्रभागानां मानचित्रम्''']]
"https://sa.wikipedia.org/wiki/अक्षि" इत्यस्माद् प्रतिप्राप्तम्