"गीतगोविन्दम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding bn, de, es, hi, id, kn, lt, ml, no, pl, pt, ru, sv, te
No edit summary
पङ्क्तिः २२:
सदा यमुनातीरे सिकताभरिते सैकते शीतलमारुते वीजीते मुरलिगानलोलं श्रीकृष्णं हृदये निधाय स्मारं स्मारं जयदेवः उन्मत्त इव कृष्णमन्वेषते । अत एव चञ्चलो विहरति । विश्वात्मकस्वरूपः श्रीकृष्णः राधागोविकास्त्रीजीवात्मभिः कृता रासक्रीडा केवला इन्द्रियरतिर्न भवति आत्मरतिरेव । परमात्मनः सर्वजीवकोटेश्च मध्ये निरन्तरमनुभूयमाना आत्मरतिः । अहङ्कारावृतां राधाम् आचार्यस्थानीया सखी वृन्दावने विहरतः श्रीकृष्णस्य वैभवं कथयन्ती तम् उपेहि इति प्रोत्साहयति ।<br />
पद्मावतीचरणचारणचक्रवर्ती जयदेवः राधामाधवतत्त्वम् उपास्य पद्मावत्यां नृत्यन्त्यां गीतगोविन्दकाव्यं पूरयामास ।
==गीतगोविन्दस्य व्याख्यानानि==
गीतगोविन्दस्य अनेकानि व्याख्यानानि समुपलभ्यन्ते . गीतगोविन्दव्याख्यातृषु जयदेवस्य शिष्यः उदयनः अन्यतमः । गीतगोविन्दकाव्यं नैकासु भाषासु अनूदितम् । एड्विन् अर्नाल्ड् नामकः पण्डितः आङ्ग्लभाषया, रिक्कर्ट् नामकः जर्मन् भाषया, कोर्टेल्लियर् नामकः फ्रेञ्चभाषया गीतगोविन्दम् अनूदितवन्तः ।
===व्याख्यानाम् आवश्यकता===
’जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसम्मतोऽयं समयः मदोन्मतङ्गजैरिव भिन्नः ।’ इति साक्षात् जयदेवं तस्य गीतगोविन्दे राधाकृष्णयोः शृङ्गारवर्णनम् अनुचितमिति आक्षिप्यते । एवमादीनाम् आक्षेपाणां व्याख्यासाहाय्यम् अपेक्षितम् । तत्रापि व्याख्यात्रा सकलकलाविदा समस्तविद्यावता भवितव्यम् । अत एव गीतगोविन्दस्य नैकाः व्याख्याः प्रवृत्ताः ।
 
==आधारग्रन्थाः==
* गीतगोविन्दम् - सर्वाङ्गसुन्दरीसंस्कृतटीकोपेतम्, प्रधानसम्पादकः आचार्य हरेकृष्ण शतपथी, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः
"https://sa.wikipedia.org/wiki/गीतगोविन्दम्" इत्यस्माद् प्रतिप्राप्तम्