"भरणी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[रविः|रविमार्गे]] दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते भरणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् भरणी भवति द्वितीयं नक्षत्रम् । <br />
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।<br />
[[Image:Aries constellation map.png|right|200px|thumb|भरणीं दर्शयति मेषमानचित्रम्]]
==आकृतिः==
'''भरणी योनि त्रीणि''' - योनि-आकृतौ विद्यमानानि त्रीणि नक्षत्राणि
Line ८ ⟶ ९:
:यसिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यर्षिचन्त देवाः ।
:तदस्य चित्रं हविषा यजाम ।
भरणीनक्षत्रस्य अधिपतिः यमः । वैदिकसाहित्ये यमः न्यायाधीशः, नियन्ता, संयमी, परमात्मा, वायुः, सूर्यपुत्रः वैवस्वतः इति च निर्दिष्टः अस्ति । तैत्तरीयब्राह्मणे एवं कथ्यते यत् यमः महान्, महत्सु महान् अस्ति । राजा अस्ति । अस्माकं मार्गं निरापदं करोति । अभयदाता अस्ति । तस्य प्रिया भरणी विश्वस्य भरणं करोति । अस्मिन् नक्षत्रे यमराजस्य राज्याभिषेकः कृतः । सः तस्मिन् नक्षत्रे आगमिष्यति । वयं भरणीनक्षत्रस्य उपासनां कुर्मः । ततः वयं कष्टेभ्यः पापेभ्यश्च मुक्ताः भवाम ।
==आश्रिताः पदार्थाः==
:याम्येऽसृक्पिशितभुजः क्रूरा बधबन्धताडनासक्ताः ।
:तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥
असृग्रक्तं पिशितं मांसं तद्भुञ्जते ये तेऽसृक्पिशितभुजो रक्तमांसादाः । क्रूराः उग्राः । वधे मारणे बन्धे ताडने कुट्टने चासक्ताः रताः । तुषधान्यं शालयः । नीचजुलोद्भवा निकृष्टवंशजाताः । ये च सत्त्वेनौदार्येण विहीना रहिताः । एते सर्वं एव याम्ये भरण्याम् ।
==स्वरूपम्==
:साहसदारुणशत्रुप्रशमननिक्षेपकूपकृष्याद्यम् ।
:यात्राभेषजभूषणविद्याश्वेभाजशिल्पवस्त्राद्यम् ।
:विषवधबन्धनदहनप्रहरणकार्याणि भरणीषु ॥
:उत्सवमङ्गलकार्यं कर्त्तव्यं दस्रनक्षत्रे ॥
भरणीनक्षत्रे साहसकर्म, दारुणकर्म, शत्रुसंहारः, कूपखननम्, कृषिकर्म, विष-वध-बन्धन-अग्निस्थापनकार्याणि कर्तुं शक्यते ।
अश्विनीनक्षत्रे यात्रा, औषधम्, आभूषणम्, विद्या, अश्व-गजारोहम्, शिल्पकर्म, वस्त्रम्, उत्सवादिमङ्गलकार्याणि कर्तुं शक्यते ।
==उग्रसंज्ञकनक्षत्राणि==
:उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु ।
:योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥
अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह -
पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि ।
 
 
==पश्य==
Line २९ ⟶ ३७:
[[pt:Aswini]]
[[ta:அச்சுவினி (நட்சத்திரம்)]]
 
==पश्य==
*[[नक्षत्र|नक्षत्र सूची]]
"https://sa.wikipedia.org/wiki/भरणी" इत्यस्माद् प्रतिप्राप्तम्