"पार्वती" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Munneswaram Shiva family.jpg|thumb|150px|'''पार्वत्याः परिवारः''']]
लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति । एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।<br />
{{हिन्दूधर्मः}}
[[File:Munneswaram Shiva family.jpg|thumb|'''पार्वत्याः परिवारः''']]
केनोपनिषदि (३.१२) सा उमा हैमवती इति नामभ्यां कथ्यते । देवराजं महेन्द्रं सा परतत्त्वविषये अबोधयत । <br />
प्रथमे जन्मनि सा दक्षप्रजापतेः पुत्री सती यदा आसीत्, तदा पितुर्यज्ञे जातां स्वपत्युः अवज्ञाम् असहमाना आत्मानम् अग्नेराहुतिं कृतवती । तदनन्तरजन्मनि सा पर्वतराजस्य हिमवतः मेनायाश्च पुत्री पार्वती जाता । कठिनं तपः कृत्वा सा पुनरपि परमशिवमेव पतिं लब्धवती । तपसि स्थितया निराहारया तया पर्णान्यपि न आह्रियन्त इति कारणात् सा अपर्णा इति नाम अलभत । देवी, शक्तिः इति नामनी यद्यपि सर्वाः स्त्रीदेवताः व्यपदिशतः, तथापि ताभ्यां सामान्यतया पार्वतीदेवी एव व्यपदिश्यते ।<br />
"https://sa.wikipedia.org/wiki/पार्वती" इत्यस्माद् प्रतिप्राप्तम्