"भगवद्गीता" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४७:
 
परा प्रकृतिः जीवरुपा विद्यते, किन्तु अपरा प्रकृतिः जीवेतर-पदार्थरुपा वर्तते । सर्वेषां भौतिकपदार्थानां ग्रहणं क्षरपुरुषरुपेण कृतम् । अपरा –प्रकृतेरष्टौ भेदा गीतायां प्रतिपादिताः पृथ्वी, जलं, तेजः, वायुः आकाशः, मनः बुद्धिः अहङ्कारश्च । क्षेत्रस्य चतुर्विंशतिभेदानां प्रतिपादनमपि गीतायां विहितम् तद्यथा –पञ्चमहाभूतानि, अहङ्कारः, बुद्धिः, अव्यक्तप्रकृतिः, पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनः पञ्च तन्मात्राश्चेति । एषां चतुर्विंशतितत्त्वानामन्तर्भाव एव अपराख्यायां प्रकृतौ भवति । इच्छा –द्वेष- सुख-दुःखसंघात चेतना –धृति –प्रभृतयस्तु क्षेत्रविकारा विद्यन्ते ।
==जीवतत्त्वनिरुपणम् (आत्मतत्तनिरूपणम्आत्मतत्त्वनिरूपणम्)==
जीवः चैतन्यात्मकोऽस्ति, अतः परमेश्वरस्य पराप्रकृतिरुपाः उत्कृष्टा विभूतिश्च वर्तते । जीव एव क्षेत्रज्ञोऽस्ति कृतकर्मणां फलभोगाय भोगायतनमिदं शरीरं क्षेत्रं भवति । क्षेत्रस्य ज्ञाता क्षेत्रज्ञ आत्माऽस्ति । क्षेत्रज्ञस्य आत्मनो वर्णनं गीतायां विस्तरेण विहितम् । आत्मा षड्विकारेभ्यो रहितोऽस्ति । स न कदापि उत्पद्यते, न म्रियते स सत्तात्मकोऽनुभूयते । तस्य कदाप्यभावो न भवति ।
 
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्