No edit summary
No edit summary
पङ्क्तिः ५:

भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "'''जननि जन्मभूमिश्च स्वर्गादपि गरीयसि'''" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

प्राचीनग्रन्थेषु मातर: इति बहव: उच्यन्ते |

यथा

स्तनदात्री गर्भदात्री भक्षदात्री गुरुप्रिया।

अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका।

सगर्भजा या भगिनी पुत्रवती प्रियाप्रसूः।

मातुर्माता पितुर्माता सोदरस्य प्रिया तथा।।

मातुः पितुश्च भगिनी मातुलानी तथैव च।

जनानां वेदविहिताः मातरः षोडश स्मृताः॥

इति ब्रह्मवैवर्ते।

अपि च, तन्त्र शास्त्रेषु अवलोकनेन मातृ-शब्दाभिधेयाः शक्तयः भासते |

ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा।

कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः॥

[[वर्गः:सम्बन्धिनः]]
"https://sa.wikipedia.org/wiki/माता" इत्यस्माद् प्रतिप्राप्तम्