"परमहंसः योगानन्दः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding fa:یوگاناندا
No edit summary
पङ्क्तिः २:
 
'''परमहंसयोगानन्‍दः''' (१८९३-१९५२) कश्चन प्रसिद्धः अध्यात्मगुरुः । तस्य जन्म गोरखपुरे अभवत् । तस्य पूर्वाश्रमस्य नाम मुकुन्‍दलालघोषः इति । सः "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः अस्ति । तस्याः संस्थायाः केन्द्रकार्यालयः बिहारराज्यस्थे राञ्चिनगरे विद्यते । ततः "आत्मसाक्षात्कारपाठाः" उपलभ्यन्ते । योगानन्दः सहस्राधिकजनान् अध्यात्मपथे अग्रे सरणाय सम्प्रेरितवान् अस्ति । परमप्रेमस्वरूपी सः अध्यात्ममार्गे अतीव सहकारिणं 'क्रियायोग'पद्धतिम् अपाठयत् ।
 
==जीवनम्==
योगानन्दः भारते उत्तरप्रदेशे गोरखपुरे श्रद्धावति बेङ्गालीकुटुम्बे १८९३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के जन्म प्राप्नोत् । लघुवयसि एव तदीया अध्यात्मासक्तिः, प्रबुद्धता च असामान्या आसीत् । तस्य पितरौ लाहिरिमहाशयस्य शिष्यौ आस्ताम् । शिशुं योगानन्दम् अङ्के गृहीतवतीं तस्य मातरम् उद्दिश्य लाहिरिमहाशयः अवदत् - 'भवदीयः पुत्रः योगी भविष्यति । अध्यात्मगुरुः सन् सः बहून् आत्मनः देवसाम्राज्यं प्रति नेष्यति' इति ।
 
यौवने मुकुन्दः भारतस्य विविधसाधुसंन्यासीनां समीपम् अध्यात्ममार्गदर्शनाय गुरुम् अन्विष्य अगच्छत् । अन्ते १९१० तमे वर्षे सप्तदशे वयसि सः स्वामिनं युक्तेश्वरगिरिम् अपश्यत् । तस्य शिष्यः जातः । अग्रिमाणि दश वर्षाणि यावत् सः युक्तेश्वरस्य वात्सल्यपूर्णे कठिने अध्यात्मानुशासने जीवनम् अयापयत् । तयोः प्रथममेलनावसरे अनन्तरदिनेषु च श्री युक्तेश्वरः शिष्यम् अवदत् - 'महावतारबाबाजी विशेषकारणाय भवन्तम् अत्र प्रेषितवान् अस्ति । क्रियायोगस्य अमेरिकादेशे आजगति च प्रचाराय एव भवान् चितः अस्ति ।' इति ।
 
१९१५ तमे वर्षे जून्मासे कल्कत्तायाः स्काटिश्-चर्च्-महाविद्यालयात् इण्टर्मीडियेट्-परीक्षाम् उत्तीर्णः योगानन्दः पदवीप्राप्त्यै सेराम्पोर्महाविद्यालयं प्राविशत् । युक्तेश्वरस्य आश्रमः अपि सेराम्पुरे आसीत् इत्यतः सः आश्रमे बहु समयं यापयति स्म । १९१५ तमे वर्षे तेन संन्यासदीक्षा गृहीता । 'स्वामी योगानन्दगिरिः' जातः । १९१७ तमे वर्षे पश्चिमवङ्गे दिहिकायां तेन कश्चन बालकविद्यालयः आरब्धः यत्र आधुनिकविद्याभ्यासेन सह योगाभ्यासः अध्यात्मलक्ष्याणि च बोध्यते स्म । वर्षस्य अनन्तरम् अयं विद्यालयः राञ्चिं प्रति स्थानान्तरितं जातम् । अयं विद्यालयः अग्रे भारतस्य योगदसत्सङ्गसोसैटीकेन्द्रं जातम् ।
 
==अमेरिकागमनम्==
१९२० तमे वर्षे बोस्टन्नगरे प्रचलिते अन्ताराष्ट्रिय-काङ्ग्रे आफ् रिलीजियस्-लिबेरल्स्-समावेशे भारतस्य प्रतिनिधित्वेन योगानन्दः अमेरिकादेशम् अगच्छत् । तस्मिन् एव वर्षे सः भारतीययोगशास्त्रस्य ध्यानपरम्परायाः च प्रसाराय 'सेल्फ् रियलैझेषन् फेलोशिप् (SRF) इत्येतां संस्थां स्थापितवान् । ततः कानिचन वर्षाणि सः जगति बहुत्र प्रवासं कुर्वन् सः भाषणं बोधनञ्च अकरोत् । सहस्रशः जनाः तस्य बोधनम् अश्रुण्वन् । बहवः प्रसिद्धाः जनाः तस्य शिष्याः जाताः । अनन्तरवर्षे केलिफोर्नियायाः लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितवान् यच्च वर्धमानस्य कार्यस्य निर्वहणकेन्द्रं जातम् । अमेरिकादेशे जीवनस्य दीर्घसमयं यापितवत्सु हिन्दुबोधकेषु योगानन्दः प्रथमः । १९२० तः १९५२ वर्षपर्यन्तं (गुरोः दर्शनाय १९३५-३६ अवधौ भारतम् आगतः आसीत् - इमं कालं विहाय) सः तत्र एव न्यवसत् ।
 
=='हिन्दुयिसम् इन्वाड्स् अमेरिका' इत्येतस्मिन् पुस्तके कश्चन अध्यायः==
१९३० तमे वर्षे लेखकः डा वेण्डेल् थामस् 'हिन्दुयिसम् इन्वाड्स् अमेरिका' इति नामकं पुस्तकं प्राकाशयत् । अस्मिन् विवेकानन्दस्य योगानन्दस्य च विषये लिखितमस्ति अधिकतया । योगानन्दस्य विषये तेन एवं लिखितमस्ति - 'परमहंसयोगानन्दस्य समीपे अहम् अगच्छं शिष्यः इव न अपि तु विमर्शकः लेखकः इव । अस्मिन् अहम् अपूर्वं सम्मिलनम् अपश्यम् । प्राचीनपरम्परायां तस्य महती श्रद्धा आसीत्, नूतनस्य परिग्रहणे अपि महदौदार्यम् आसीत् । अतः एव सः भारतीयः हिन्दुः सन् एव अमेरिकीयः क्रैस्तश्च जातः । स्वस्य महत्या अन्तश्शक्त्या श्रद्धया च सः जगति अध्यात्मपिपासून् सर्वान् संयोजयितुम् अशक्नोत् । सः लक्षशः जनेभ्यः आनन्दं शान्तिञ्च आनयत् ।
अस्मिन् पुस्तके कश्चन अध्यायः अस्मिन् विषये एव अस्ति । आदौ अयम् अध्यायः 'योगानन्दः' इति ततः 'योगदसिस्टम्' इति ततः 'योगदसत्सङ्गसंस्था' इति च निर्दिष्टः अस्ति ।
==भारतप्रवासः १९३५-३६==
In 1935, he returned to India to visit Yukteswar and to help establish his Yogoda Satsanga work in India. During this visit, as told in his autobiography, he met with Mahatma Gandhi, the Bengali saint Anandamoyi Ma, renowned physicist Chandrasekhara Venkata Raman, and several disciples of Yukteswar's guru Lahiri Mahasaya.[13] While in India, Yukteswar gave Yogananda the monastic title of Paramahansa. (SRF adopted the spelling "Paramahansa" after Yogananda's death. Ananda Sangha continues to use the original spelling.)[14] Paramahansa means "supreme swan" and is a title indicating the highest spiritual attainment.[15][16] In 1936, while Yogananda was visiting Calcutta, Yukteswar died in the town of Puri.
१९३५ तमे वर्षे सः गुरोः युक्तेश्वरस्य मेलनाय भारतम् आगतः । भारते योगदसत्सङ्गकार्यस्य आरम्भः अपि तस्य उद्देशः आसीत् ।
 
[[वर्गः:भारतीयदार्शनिकाः]]
"https://sa.wikipedia.org/wiki/परमहंसः_योगानन्दः" इत्यस्माद् प्रतिप्राप्तम्