"विभीषणः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
==धर्मरतः==
विभीषणः गोकर्णक्षेत्रे तपः कृत्वा ब्रह्माणं परितोषयित्वा घोरविपत्तिकालेऽपि धर्मे मनः लग्नं भवेत्, मन्त्राभ्यसबलेन विना ब्रह्मास्त्रं स्वाधीनं भवेत् इति वरमवाप । चतुर्मुखः स्वेच्छया अस्मै चिरञ्जीविपदम् अनुगृह्तीतवान् । तैलूषः इति राक्षस्य पुत्रीं सममा इति कन्यां परिणीतवान् । [[हनूमान्]] रावणस्य अशोकवनिकां विध्वंसितवान् । तदा रावणः हनूमतः हननं कर्तुम् आदिष्टवान् । तदा विभीषणः दुतवधः अधर्मः इति उपदेशं रावणाय कृत्वा तेन तिरस्कृतः । पश्चात् समुद्रस्य अन्यस्मिन् पारे स्थितस्य [[रामः|रामस्य]] दर्शनं कृत्वा तं प्रापद्यत । रामः तस्मै अभयं दत्तवान् । [[रावणः|रावणप्रेरिताः]] शार्दूलः इत्यादयः गुपचररक्षसाः श्रीरामस्य सेनां प्रविश्य कूटं कुर्वन्ति स्म । विभीषणः तान् सर्वान् सहृतवान् । कुम्भकर्णस्य विषयं सर्वं, [[मेघनादः|इन्दजित्]] कृतं मायासीताहनं रामाय न्यवेदयत् । स्वरहस्यम् उक्तवानिति मेघनादः विभीषणेन सह विवादमकरोत् । तदा तं धिक्कृतवान् । रावणवधस्य पश्चात् अग्रजस्य विषये व्यथामकरोत् । रामः तस्य सान्त्वयन् तस्य राज्याभिषेकम् कृतवान् ।
 
 
"https://sa.wikipedia.org/wiki/विभीषणः" इत्यस्माद् प्रतिप्राप्तम्