"गोकाकजलपातः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Adding mr:गोकाक धबधबा
(लघु) r2.7.3) (Robot: Adding pnb:گوکک چھمبر; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Gokak Falls.jpg|thumb|300px|'''गोकाकजलपातः''' ]]'''गोकाकजलपातः''' – [[कर्णाटक]]राज्ये [[बेळगावीमण्डलम्|बेळगावीमण्डले]] मण्डलकेन्द्रतः ७२कि.मी.दूरे गोकाक् पत्तनमस्ति । ततः ७कि.मी.दूरे एव कर्णाटकस्य नयागरा इति कथ्यमाना गोकाक् जलपातः दृश्यते । तत्र घटप्रभा नदी १८०मी. गहने कन्दरे पतति ।एतस्या: वैशाल्यमं १७६ मीटर् । जलपातस्य उच्चघोषः कर्णकुहरं बाधते । एषः जलपातः वर्षाकाले केवलं गर्जति ग्रीष्मकाले क्षीणजलः भवति । अगाधा जलराशिः निसर्गोत्कीर्णात् शिलाकन्दरात् कूर्दति । अस्य जलपातस्य सौन्दर्यम् आस्वादयितुं, ग्रामजनानां सौकर्याय च अत्र १७७मी. दीर्घः दोलासेतुः निर्मितः । इतः दृष्टुम् अधिकं धैर्यम् आवश्यकं भवति यतः नद्यः प्रवाहस्य बलाधिक्यात् जलपातः भयानकः अस्ति । नदीजले कुत्रापि स्नानस्य जलखेलनस्य धैर्यं न प्रदर्शनीयं यतः जलप्रवाहस्य वेगः तावान् अस्ति यः स्पृशति सः निमज्जति एव । जूनमासतः अक्टोबर पर्यन्तं जलपातविक्षणार्थं सुकालः । अधोभागे जलविद्युदुत्पादनस्य केन्द्रम् अस्ति ।
अस्य जलपातस्य विशेष: नाम अत्र प्रस्तरभङ्गेन एतस्य जलपातस्य सृष्टि: अभवत् । शिला: उपरितनेन भारेन भग्ना: भूत्वा ताः द्विधा विभक्ताः भवन्ति । एक: भाग: अध: अपसरति । नद्या: जलं उपरिष्टात् अध: अपसृतं भागं प्रति कूर्दति इति कारणेन अत्र जलपात: रचित: अस्ति । अत: एतस्य विशालता अधिका अस्ति ।
[[Fileचित्रम्:Gokak Falls-Hanging Bridge.jpg|left|250px|thumb|'''दोलासेतुः''']]
== सम्पर्कः ==
 
राजधानीबेङ्गळूरुतः बेळगावीपर्यन्तं रेल् यानानि अधिकानि सञ्चरन्ति । सर्वकारीयाणि बस् प्रतिरात्रं चलन्ति । बेङ्गळूरुतः साक्षात् गोकाक् पर्यन्तं गत्वा ततः ६कि.मी.दूरं भाटकयानेन सञ्चरितुं शक्यते । भोजनावासादिव्यवस्थाः गोकाक् पत्तने भवितुमर्हति । जलपातस्य परिसरे वसतिभोजनादिव्यवथा अस्ति किन्तु मिता अस्ति ।
 
[[वर्गः: कर्णाटकस्य जलपाताः]]
[[वर्गः: कर्णाटकस्य भूविस्मयाःजलपाताः]]
[[वर्गः: कर्णाटकस्य जलपाताःभूविस्मयाः]]
 
[[bn:গোকাক ফলস্]]
Line १५ ⟶ १६:
[[mr:गोकाक धबधबा]]
[[new:गोकक फल्स]]
[[pnb:گوکک چھمبر]]
[[vi:Gokak Falls]]
"https://sa.wikipedia.org/wiki/गोकाकजलपातः" इत्यस्माद् प्रतिप्राप्तम्