"कर्मणो ह्यपि बोद्धव्यं..." इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २१:
कर्म विहितम्, निषिद्धम्, विधिनिषेधरहितं चेति त्रिविधम् । एतस्य त्रिविधस्यापि कर्मणः स्वरूपं यथावत् ज्ञातव्यम् । किन्तु एतत् अत्यन्तं क्लेशेन अवगन्तव्यम् ।
 
==शाङ्करभाष्यम्==
न चैतत्त्वया मन्तव्यं, कर्म नाम देहादिचेष्टा लोकप्रसिद्धम्, अकर्म तदक्रिया तीष्णीमासनं, किं तत्र बोद्धव्यमिति। कस्मादुच्यते-कर्मण इति। कर्मणः शास्रविहितस्यहि यस्मादप्यस्ति बोद्धव्यं, बोद्धव्यं चास्त्येव विकर्मणः प्रतिषिद्धस्य तथाऽकर्मणश्च तूष्णींभावस्य बोद्धव्यमस्तीति त्रिष्वप्यध्याहारः कर्तव्यो यस्माद्गहना विषमा दुर्ज्ञाना, कर्मण इत्युपलक्षणार्थं, कर्मादीनां कर्माकर्मविकर्मणां गतिर्याथात्म्यं तत्त्वमित्यर्थः।।17।।
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/कर्मणो_ह्यपि_बोद्धव्यं..." इत्यस्माद् प्रतिप्राप्तम्