"मङ्गलः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding nds-nl:Mars (planeet)
(लघु) r2.7.3) (Robot: Modifying hy:Մարս (մոլորակ); अंगराग परिवर्तन
पङ्क्तिः २:
| वर्णः = E8AB79
| नामः = मङ्गल
| मुद्रः = [[Fileचित्रम्:Mars symbol.svg|20px]]
| चित्रः = [[Fileचित्रम्:Mars Hubble.jpg|250px]]
| अपर नामः =मार्स्
| विशेषणम् = मङ्गलवासिनः
पङ्क्तिः २७:
| तापमानम् =१८६-२६८ K
| दबः =०.६-१.० kPa
| वयु संघटनम् =९५.७२% इंगालाम्लः
२.७% निट्रोजन्
१.६% आर्गान्
०.२% आम्लः

<poem>
पङ्क्तिः ३३:
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
== परिचयः ==
एषः सूर्यमण्डलस्य तृतीयः ग्रहः अस्ति। मङ्गलस्य वर्णः रक्तः अस्ति । अतः अस्य अङ्गारकः इति कथयन्ति । अस्य ग्रहस्य व्यासः भवति ४२०० मैल्-परिमितम् । अयं ग्रहः सूर्यात् २२८,०००,००० कि मी (१४२,०००,०००मैल्) परिमिते दूरे विद्यते । अस्य ग्रहस्य वातावरणे स्वस्य भ्रमणाय अयं ग्रहः ३७ निमेषाधिक २४ घण्टाः स्वीकरोति । सूर्यं परितः भ्रमणाय ६८७ दिनानि स्वीकरोति । अस्य ग्रहस्य '''फोबोस्-डैमोस्'''(Phobos-Deimos) -नामकौ द्वौ उपग्रहौ स्तः । विलक्षणरूपयुक्तौ इमौ उपग्रहौ पूर्वं लघुग्रहरूपेण (अस्टेरायिड्स्) स्याताम् इति ऊह्यते । भूग्रहात् मङ्गलग्रहः साक्षात् द्रष्टुं शक्यः । मङ्गलस्य गोचरप्रमाणं (apparent magnitude)- २.९पर्यन्तं भवति । भूमितः दर्शनेन शुक्रः, चन्द्रः, सूर्यश्च मङ्गलस्य अपेक्षया अधिकाः प्रकाशमानाः दृश्यन्ते । किन्तु वर्षे कानिचन दिनानि गुरुग्रहः मङ्गलस्य अपेक्षया अधिकप्रकाशमानः दृश्यते ।

ऐदम्प्राथम्येन १९६४ तमे वर्षे जातस्य म्यारिनर्-मङ्गलयानतः पूर्वं बहुभिः ऊहितम् आसीत् यत् मङ्गलग्रहे यथेष्टं जलं द्रवरूपेण उपलभ्येत इति । मङ्गलध्रुवाणां समीपे दृष्टाः शिथिल-गाढचिह्नानि आकारे पौनःपुन्येन परिवर्तमानानि आसन् । अपि च, जलनालाः इव दृश्यमानाः गाढपट्टिकाः अपि दृष्टाः । मङ्गलग्रहे जलराशिः स्यात् इत्येतस्याः आशापूर्णायाः प्रतीक्षायाः इदमेव कारणं स्यात् ।

वस्तुताः एताः पट्टिकाः न आसन् एव, भ्रममात्रम् इति आनन्तरीयविश्लेषणैः अवगतम् । तथापि भूग्रहं विहाय मङ्गलग्रहे एव जलस्य (जीवजन्तोश्च) अस्तित्वं सम्भाव्यते । अतः अद्यत्वे अपि तत्र सूक्ष्मजीविनाम् अभिज्ञानाय प्रयत्नः प्रचलति । मङ्गलस्य दैनन्दिनचलनम् ऋतुमानादयः भूमेः विद्यमानानां सादृश्यं भजते । सौरमण्डले विद्यमानस्य अत्युन्नतः पर्वतः '''ओलिम्पस् मान्स्'''(यश्च पर्वतः गौरीशङ्करस्य अपेक्षया त्रिगुणितोन्नतः वर्तते), अतिगभीरा दरी '''म्यारिनेरिस्-खातम्''', ध्रुवप्रदेशे हिमवलयाश्च अस्मिन् ग्रहे दृश्यन्ते । केभ्यश्चित् वर्षेभ्यः पूर्वमपि अस्मिन् ग्रहे जलं द्रवरूपेण स्यात् इति केचन आधाराः कथयन्ति ।

अद्यत्वे मङ्गलं परितः '''मङ्गल-ग्लोबल्-समीक्षकः, मङ्गल-ओडिस्सि, मङ्गल-एक्स्प्रेस्, मङ्गल-गुप्तचर-परिभ्रमकः''' इत्येताः ४ गगननौकाः(spacecraft) परिभ्रमन्तः सन्ति । अपि च मङ्गलस्य बहिरावरणे '''स्पिरिट्-आपर्चुनिटि'''-नामकौ पर्यटकौ अपि कार्यं निर्वहन्तौ स्तः ।
== भौतिकलक्षणानि ==
लौहमलेन युक्तात् उपरितनभागात् प्रतिफलितः अस्य प्रकाशः रक्तवर्णीयः भवति । तस्मात् एव अयं ग्रहः '''रक्तग्रहः'''(Red Planet) इति उच्यते । मङ्गलग्रहस्य व्यासः भूमेः व्यासस्य अर्धभागमितः अस्ति । मङ्गलग्रहस्य घनत्वं न्यूनमस्ति इत्यतः तत्रत्यः द्रव्यराशिः भूमेः दशांशः अस्ति । किन्तु मङ्गलस्य बाह्यविस्तारः भूमेः शुष्कभूतलविस्तारसमः अस्ति । मङ्गलग्रहः गात्रे द्रव्यराशौ च यद्यपि बुधग्रहस्य अपेक्षया बृहत्तरः तथापि बुधस्य गुरुत्वबलम् अधिकं वर्तते । अस्य कारणम् अस्ति बुधस्य नैबिड्याधिक्यम् ।
रोमन् जनाः एतं मङ्गलग्रहं स्वयुद्धदेवतायः नाम्ना मार्स् इत्येव नामाङ्कितवन्तः । ईजिप्त् जनाः हर् देशर् इति नाम्ना अभिजानन्ति यस्य अर्थः रक्तवर्णः एव । भारतीयानां भावानुगुणं अयं भूमिपुत्रः मङ्गलः । रक्तवर्णेन शोभमानः ग्रहः मङ्गलः। संस्कृतभाषया अस्य अङ्गारकः इत्यपि नाम अस्ति । अङ्गारस्य वर्णः रक्तः एव । प्राचीनभारतीयाः अस्य ग्रहस्य वर्णः रुधिरवर्णः इति जानन्ति स्म इति वक्तुं शक्यते ।

मङ्गलस्य वर्णः रक्तः यतः अत्र प्रसृतानि अयसा युंक्तपदार्थस्य रजांसि । तानि सूक्ष्मस्तररूपेण मङ्गलस्य परिसरे प्रसृतानि भवन्ति अतः मङ्गलः रक्तवर्णेन दृश्यते । मङ्गलः शीतलं मरुस्थलम् । अस्य ग्रहस्य बाह्यकायस्य मुख्यांशः शिलाः । अस्य व्यासः भूमेः अर्धं भवति । भूमिरिव शुष्कप्रदेशाः अपि सन्ति । सर्वषाम् ॠतूनां वयुमण्डलम् अत्र भवति यथा भूमौ । अस्य कारणं तु अस्य आवर्तनाक्षांशः भूमिः इव २३० प्रमाणेन वक्रः अस्ति । ग्रहस्य ध्रुवप्रदेशेषु तुषारकिरीटं, ज्वालामुखिनः, महादर्यः च सन्ति । ऋतुमानानुगुणं हिममुकुटस्य विस्तारः सङ्कोचः वा भवति । अस्य वातवरणं पुनः पुनः परिवर्तते इति छिद्रितप्रदेशाः सूचयन्ति । अस्य शीतलं शिथिलं च वायुमण्डलं सूचयति यत् अत्र जलस्य बिन्दुरपि नास्ति इति ।
== संशोधः ==
३.५दशलक्षवर्षेभ्यः पूर्वं महापूरः आगतस्य लक्षणानि सन्त्यपि कुतः आगतं जलं कति दिनानि आसीत् इति कोऽपि न जानाति । क्रि.श.अ२००२तम वर्षात् अनन्तरं नासा संस्थया प्रेषितात् ओडिस्सी इति उपग्रहात् प्राप्तसूचनानुगुणम् अधिकजलनिक्षेपाः ध्रुवीयभागे सन्ति । अधिकप्रमाणेन जलं हिमशिलारूपेण अस्ति । यदि समग्रे ग्रहे हिमशिलाः सन्ति तर्हि अन्तर्जलम् अवश्यं भवति स्म । किन्तु हैमशिलाः केवलं ध्रुवप्रदेशे सन्ति । क्रि.श.२००४तमे वर्षे अपर्चुनिटि स्फिरिट् चेति गगननौके कानिचन निर्दिष्टरासायनिकरचनानि, खनिजांशान् शोधयित्वा नौकावतरणस्थले जलांशः अस्तीति सूचितम् । सौरमण्डलस्य बुधः, शुक्रः,भूमिः इव मङ्गलस्य बाह्यकायः ज्वालामुख्या, शुक्तीनां स्थानान्तरेण, जञ्झावातेन परिवर्तितः । ज्वालामुखिनः पर्वताः दशलक्षवर्षेभ्यः पूर्वम् उत्पन्नः इति वक्तुं शाक्यते । सौरव्यूहस्य अतिमहान् ज्वालमुखी पर्वतः ओलिम्पस् मान्स् अपि च अतिनिम्नदरी वल्लेस् मारिनेरिस् अस्मिन् ग्रहे एव स्तः ।

== रूपं चलनं च ==
मङ्गलस्य सञ्चलपथः अण्डाकारेण अथवा दीर्घवृत्ताकारेण अस्ति । अतः सूर्यस्य अन्तरे भूमेः अपिक्षया अधिकः व्यत्यासः भवति । अतः ऋतुमानः बहुव्यत्यस्तः भवति । मङ्गलग्रहस्य बाह्यरूपं भूमितः सम्पूर्णं दृष्टुं न शक्यते चेदपि दूरदर्शकयन्त्रेण पश्यति चेत् अस्य ग्रहस्य ध्रुवप्रदेशे हिमटोपिकाः दृग्गोचराः भवन्ति । मङ्गलग्रहस्य फोबोस् डैमोस् चेति उपग्रहद्वयम् अस्ति । एतौ मङ्गलस्य गुरुत्वाकर्षणात् बद्धौ क्षुद्रग्रहौ । एतयोः द्रव्यराशिः न्यूना अस्ति इति कारणेण गोलकाकारे न स्तः । मङ्गलग्रहः सौरव्यूहस्य कश्चन सङ्कीर्णः ग्रहः इति विज्ञानिनाम् अभिप्रायः । अस्य ग्रहस्य कन्तक्षेत्रं नास्तीति वादः । किन्तु नासा प्रेषितस्य मार्स् ग्लोबल् सर्वेयर् नाकानुगुणं दक्षिणगोलार्धस्य शुक्तिप्रदेशे केवलम् अत्यधिकं कान्तक्षेत्रमस्ति ।

== भूविवरणानि ==
==कक्षा परिभ्रमणञ्च==
== उपग्रहौ ==
==जीवराशिः==
== अन्वेषणयात्रा ==

{{नवग्रहम्}}
पङ्क्तिः १२४:
[[ht:Mas (planèt)]]
[[hu:Mars (bolygó)]]
[[hy:ՀրատՄարս (մոլորակ)]]
[[ia:Marte (planeta)]]
[[id:Mars]]
"https://sa.wikipedia.org/wiki/मङ्गलः" इत्यस्माद् प्रतिप्राप्तम्