"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १९:
 
* "'''कविः वीथिवीरः'''": यथा हि वीथिवीरो नाम कश्चित् लघुः स्थानीयः कविः स्यात्, येन द्वित्राः स्थानीयाः पुरस्कारा अपि जिताः स्युः (यथा नेशनल कालेज् इत्यत्र सर्वोत्तम-कवि-अवार्ड् 2006 इति, तथा च कालोनीरत्नसम्मानम् इति)। परन्तु नायं अधुनावधि यावत् अधिको विख्यातः। स्ववीथ्यां सः ख्यातनामा। द्वित्राणां पत्रिकानां पाठका अपि तस्य नाम ज्ञातवन्तः सन्ति। तस्य ब्लागे जनाः तस्य काव्यं प्रशंसितवन्तश्च। परन्तु तस्मात् सीम्नः पश्चात् कदाचित् न तं कोऽपि जानाति। एकं तस्य पुस्तकमपि रामूश्यामू-प्रकाशनेन प्रकाशिताऽस्ति। पुस्तकस्य च पृष्ठावरणे अङ्कितं यत्- "कविवीथिवीरः भारतस्य कवितमः प्रसिद्धः" इति। स्रोतोऽयं न विषयात् स्वतन्त्रः वर्तते- एतानि खलु वीथिवीरमहोदयस्यैव पुस्तकस्य वाक्यानि। राष्ट्रियस्तरीयेषु द्वित्रेषु पत्रिकापत्रेषु तदुल्लेखः स्यात् तदा भिन्ना वार्त्ता। अधुनावधि न वीथिवीरकविः विकिपीडियायै उल्लेख्यविषयः। आशासे यत् कालेन सः कोऽपि महान्तं पुरस्कारं जयेत्, बहुख्यातिं च प्राप्नुयात्, तदैव वयं विकिपीडियायां तमधिकृत्य लिखिष्यामः इति।
 
परन्तु न अनेन एतत् तर्कितव्यं यत् स्वल्पज्ञातं कश्चित् विषयः तेनैव न्यायेन न विकिपीडियायां भवितुम् अर्हति। भवन्ति बहवः विषयाः संस्कृतसंसारे ये नाधुनावधि यावत् बहु प्रचारिताः। तेषां च प्रचारः आवश्यकः। तदा तस्य विषयस्य उल्लेख्यता स्वयंसिद्धा-उल्लेख्यता-न्यायेन सिध्यति। यथा हि कस्यचित् प्राचीनपाण्डुलिपिविषये कदाचित् न बहवः जनाः जानन्ति, परन्तु सा प्राचीनत्वात् एव कदाचित् महत्त्वं भजते। एषा नाम स्वयंसिद्धा उल्लेख्यता।
 
[[वर्गः:विकिपीडिया-साहाय्यम्]]
"https://sa.wikipedia.org/wiki/विकिपीडिया:उल्लेख्यता" इत्यस्माद् प्रतिप्राप्तम्