"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Modifying simple:Lakshmi Bai
(लघु) r2.7.3) (Robot: Adding af:Lakshmibai; अंगराग परिवर्तन
पङ्क्तिः २३:
}}
 
[[चित्रंचित्रम्:Rani of jhansi.jpg|thumb|राज्ञी लक्ष्मीबायी]]'''झान्सीराणीलक्ष्मीबाय्याः''' जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्यां अजायत। सा '''झान्सी की राणी''' इति नाम्ना अवर्धत। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् अस्ति। सा आङ्लविरोधनीते: प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्रामम् आरब्धवती।
 
महाराज्ञी लक्ष्मीः
पङ्क्तिः ३४:
अथ पतिपुत्रवियोगेन नितरां संतप्ताऽपि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् अधारयत् । अस्याः शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानं कृते असहनीयम् जातम् । ते अस्याः राज्यम् उत्त्राधिकारहीनम् उदघोष्य हस्तगतम् अकुर्वन्, राज्ञ्यै लक्ष्म्यै च स्वल्पां मासिकवृत्तिं स्वीकृतवन्तः । आंगलजनाः न केव्लं राज्ञ्यां ;लक्षम्याम् अपितु अन्येष्वपि जनेषु अत्याचारान् अकुर्वन् । अतः सम्पूर्णे भारते यत्र तत्र स्वागन्त्र्यस्य अग्नेः स्फुलिंगाः प्रकटिताः
 
== पूर्वजीवनम् ==
जन्मसमये मणिकर्णिका (मनु इति उपनाम्ना) इति नाम्ना परिचिता लक्ष्मीबायी १८३५तमे संवत्सरे नवेम्बरमासस्य १९तमे दिनाङ्के वारणासीनगरे महाराष्ट्र्रजनपदमूलस्थे राजपुरोहितब्राह्मणकुटुम्बे अजायत। तस्याः मातापितरौ भागीरथीबायी मोरोपन्तताम्बे च इति। तस्याः उल्लसितसौन्दर्यात् चमेली इति नाम अपि आसीत्। यदा सा चतुर्वषीया आसीत् तदा तस्याः माता दिवङ्गता। तस्याः विद्याभ्यास: गृहे अभवत्। तस्याः पिता मोरोपन्तः बिर्तूरे पेश्वासभायां कार्यं करोति स्म।
माता इव सा अपि अत्यन्तं सून्दरी । दीर्घाः कुन्तलाः विशालं नयनयुगलं मुखे राजवैभवं च दृश्यते स्म ।
यदा सा चतुर्वषीया आसीत् तदा तस्याः माता दिवङ्गता। अतः पुत्र्याः पालन- पोषणादिभारः सर्वोऽपि पितरि मोरोपन्ते एव पतितः। स: ताम् अन्यविषयैः सह खड्गचालनं, अश्वचालनं, गोलकास्त्रोपयोगादिसर्वविद्याः पाठितवान् ।
ईशवीये १८४२वर्षे झान्सीराजेन गङ्गाधररावेण सह मनूबाय्याः विवाहोऽभवत् । तेन विवाहेन न एका निर्धनब्राह्मणबालिका झान्सीराज्ञी लक्ष्मीबायी जाता।
== तानि दिनानि ==
१९ तमशताब्दस्य आरम्भदिनानि तानि। ईस्टिण्डिया कम्पनी नाम्ना आङ्ग्लेयाः वाणिज्यमारब्धवन्तः आसन्। तेन सह भारतीयानाम् उपरि शासनमपि कुर्वन्तः आसन् । भारतदेशे राज्ञां मध्ये अन्तःकलहाः अधिकतया आसन् ।तस्य सदुपयोगं स्वीकुर्वन्त: आङ्ग्लेयाः स्वीयराज्यविस्तरणाय तान् उपयुक्तवन्तः। केचन अस्मद्देशीयराजाः अपि तेषां साहाय्यं कर्तुं परस्परं स्पर्धन्ते स्म।
== सवातवृष्टेः पूर्वतनी प्रशान्तता ==
अन्तिमपेश्वामपि अधिकारात् च्युतं कृतवन्तः आङ्ग्लेयाः। तेन तेषामहङ्कारः अवर्धत । मुघलचक्रवर्तिनमपि ते न परिगणितवन्त:।
एवम् एकत्र देशस्वातन्त्र्यविनाशाय कुतन्त्रे प्रचलति सति अन्यत्र दास्यात् विमुक्तयेऽपि प्रयत्नाः प्रचलन्ति स्म।
स्वातन्त्र्यप्राप्त्यर्थं जायमाना आकाङ्क्षा अधिककालं निरोद्धुं न शक्यते। यावत् निरोद्धुं प्रयत्नः प्रचलति तावत् तस्याः बलं वर्धते एव । एकत्र राज्ञां सिंहासनानि कम्पन्ते स्म। आङ्ग्लेयैः कृताः अपमानकरनियमाः तैरवश्यं अङ्गीकरणीयाः भवन्ति स्म। तेषां स्वीयराज्यानि सामन्तराज्यानि इति उद्घोष्यन्ते स्म। अन्यतः आङ्ग्लसर्वकारं समूलम् उन्मूल्य देशस्य स्वातन्त्र्यं, गौरवं च रक्षणीयमिति आकाङ्क्षा जनेषु वर्धमाना आसीत् ।
बहिस्तु अत्यन्तप्रशान्तं वातावरणं दृश्यते स्म । सर्वं सहसा प्राचलत् । आग्निपर्वतस्य विस्फोटनात्पूर्वं दृश्यमानप्रशान्ततासदृशी प्रशान्तता सा।
== महान् आघातः ==
ईशवीये १८५१ तमे वर्षे महाराज्ञ्याः लक्ष्मीबाय्याः एकः पुत्रः जातः । किन्तु दौर्भाग्यवशात् मासत्रये एव सः बालः मृतः | गङ्गाधररावस्य राज्यभवितव्यविषये चिन्ता जाता । सा चिन्ता मानसिकतया तं निर्वीर्यं कृतवती । तस्य मनोवेदनायाः अन्यदपि कारणमासीत् - तदानीन्तन: गवर्नर् जनरल् डल्हौसी इत्यस्य क्रूरपालनम् । तस्मिन् समये केचन राजानः आङ्ग्लेयानां साहाय्यं प्राप्तवन्तःआसन्। तदर्थं तेषां कृते कश्चन नियमः कल्पितःआसीत् । 'यदि सन्ततिं विना राजा मृतो भवति, तर्हि तस्य राज्यम् आङ्ग्लेयाः स्वायत्तीकुर्युः। यदि सः राजा यं कमपि बालकं दत्तकपुत्ररूपेण स्वीकृतवान् अस्ति तर्हि अपि तस्य बालकस्य परिपालनाधिकारो न भवेत् 'इति। तादृशऱाज्यकुटुम्बजनानां कृते प्रतिवर्षं भरणं देयम् । राज्यरक्षणं तु आङ्ग्लेयाः एव कुर्युः । एतत् डल्हौसीपालनविधानमासीत् ।
एतान् नियमान् आश्रित्य आङ्ग्लेयाः अनेकानि राज्यानि हस्तगतानि कृतवन्तः। अधुना झान्सीराज्ये तेषां दृष्टिः पतिता। गङ्गाधररावस्य वार्धाक्ये एषः महान् आघातः। सः चिन्ताग्रस्तः जातः। ईशवीये १८५३ तमे वर्षे लक्ष्मीबायी- गङ्गाधररावौ आनन्दराव् इति कञ्चन बालकं दत्तकरूपेण स्वीकुर्वः इति निश्चितवन्तौ । दत्ततास्वीकरणानन्तरं तस्य बालस्य दामोदरराव् इति नाम कृतवन्तौ।
== आशा न नष्टा ==
दत्ततास्वीकरणानन्तरं गङ्गाधररावः आङ्ग्लेयानुद्दिश्य किञ्चन पत्रं लिखितवान् । दत्ततास्वीकारविधानस्य सर्वान् विषयान् सः तस्मिन् पत्रे विवृतवान् । स्वीयदत्तपुत्रं स्वस्य राज्यस्य उत्तराधिकारिरूपेण अङ्गीकुर्वन्तु । तं राज्यस्य प्रतिनिधिरूपेण अङ्गीकुर्वन्तु इत्यपि प्रार्थितवान् असीत् स: । आङ्ग्लेयानां, झान्सीराज्यस्य मध्ये विद्यमानं स्नेहसम्बन्धमपि सः तस्मिन् पत्रे स्मारितवान् असीत्। मेजर् एलिस् हस्ते एतत् पत्रं दत्त्वा लार्ड डाल्हौसी कृते एतत् प्रापणीयमिति प्रार्थितवान् ।
पत्रप्रदानसमये राज्ञः नेत्रयोः अश्रूणि उद्गतानि । कण्ठः अवरुध्दः । यवनिकायाः पृष्ठत: राज्ञ्याः रोदनस्वरः अपि श्रूयते स्म ।
पङ्क्तिः ६१:
आङ्ग्लजनानां बलस्य, वञ्चनानां च प्रतिभटनं झान्सीसदृशस्य लघुराज्यस्य कष्टतमः विषयः इति ज्ञातुम् तस्याः अधिकसमयः नापेक्षितः आसीत् । तत्रापि पेश्वा आङ्ग्लेयानां दासत्वमङ्गीकृतवानेव। देहलीचक्रवर्ती अपि तेषां शरणे असीत् ।
आङ्ग्लेयाः झान्सीराज्यं हस्तगतं कृतवन्तः। ततः आरभ्य राज्ञ्याः दिनचर्यायाम् अधिकं परिवर्तनम् आगतम् । प्रतिदिनं प्रातः चतुर्वादनतः अष्टवादनपर्यन्तं स्नानं, ध्यानं, पूजा, प्रार्थना इत्यादिषु समयं यापयति स्म। अष्टवादनतः एकादशवादनपर्यन्तम् अश्वारोहणं, गोलकास्त्र- खड्ग भल्लादीनां प्रयोगस्य अभ्यासं च करोति स्म । तस्मिन् समयेऽपि अश्वम् अत्यन्तवेगेन चालयन्ती एव भवति स्म । क्षुधार्तेभ्यः, निर्धनेभ्यः आहारवितरणानन्तरं स्वयमपि भोजनं करोति स्म । भोजनानन्तरं किञ्चित्कालं यावत् विश्रान्तिः, अनन्तरं रामायणपठनं च करोति स्म। सायं लधुव्यायामं कृत्वा अनन्तरं पुनः कञ्चित्कालं यावत् धार्मिकग्रन्थानां पठनं, धार्मिकप्रवचनश्रवणम् , अन्ते इष्टदेवताप्रार्थनां च कृत्वा निद्रां करोति स्म । एतां दिनचर्यां सा नियमेन, समयपालनेन च अनुसरति स्म ।
== सङ्घर्षणार्थं सज्जता ==
अत्याचारान्, अन्याय्यानि च ये सहन्ते ते मृतसमानाः। न्याय्यस्य आदरणमेव नीतिः। अन्याय्यस्य पुरतः शिरोनमनं भीरूता एव।
अधिकपीडनेन गोलकास्त्रगोलम् अपि शकलीभवति। पशवः अपि क्रूरत्वं विरुध्द्य प्रतीकारार्थं सिध्दाः भवन्ति। तेन कीदृशपरिणामा भवन्तिति चिन्तयन्त: न तिष्ठन्ति ।
पङ्क्तिः ७०:
तं विषयं ज्ञात्वा राज्ञी " देशस्य यदा स्वातन्त्र्यप्राप्तिः भविष्यति, तदा एव स्वकेशान् वापयिष्यामि। अथवा श्मशाने एव तत् भविष्यति " इति प्रतिज्ञां कृतवती।
आङ्ग्लेयानां कृत्यैः असन्तुष्टाः नानासाहेबः, रावसाहेबः, देहलीचक्रवर्ती बहदुरशाहः, अयोध्याराजस्य (नवाबस्य) सहचराः च तदा तदा एकत्र समाविष्टा: भवाम: इति भावयन्तः आसन्। राज्ञ्याः मनसि अपि तादृशम् एव चिन्तनम् आसीत् । कोऽपि धार्मिककार्यक्रमः यदा भवति तदा ते मेलितुं शक्नुवन्ति स्म।
== समैक्यम् ==
दत्तकपुत्रः दामोदररावः सप्तवर्षीयः जातः । तस्य उपनयनार्थं व्यवस्था प्रचलति स्म । राज्यस्य आङ्ग्लाधिकारिणे एकम् अभ्यर्थनापत्रं प्रेषितवन्तः। राज्यकोशे दामोदररावनाम्ना विद्यमानेषु षट्लक्षरूप्यकेषु उपनयनव्ययनिमित्तं एकलक्षरुप्यकाणि स्वीकर्तुं तस्मिन् पत्रे अनुमतिं प्रार्थितवन्तः। किन्तु 'दामोदररावः इतोऽपि बालः। केऽपि चत्वारः तस्य पक्षतः प्रतिश्रोष्यन्ति चेदेव तत् धनं दद्म:' इति निरुध्दवान् आङ्ग्लाधिकारी।
राज्ञ्या तदापि अपमाननं समनुभूतम् । तान् नियमान् अङ्गीकृत्य, धनं स्वीकृतवती। एतस्य उपनयनस्य सन्दर्भे नायका सर्वे मिलितवन्तः। तेषां मध्ये रहसि चर्चाः जाताः, गोष्ठ्यः प्रचलिताः च। तस्मिन् समये यत्र चर्चाः भवन्ति स्म, तस्य भवनस्य चतसृषु दिक्षु महिलाः एव रक्षणं कृतवत्यः।
तत्र नायकाः कांश्चन मुख्यान् विषयान् ज्ञातवन्तः। 'तिलकधारणाय अनुमतिं न दत्तवन्तः' इति आङ्ग्लसैन्ये स्थिताः हिन्दुसैनिकाः खिन्ना: आसन्। एवमेव 'वराहवसालेपितानि गोलकानि बलात्कारेण प्रयोजयन्ति' इति महम्म्दीयसैनिकाः कुपिताः आसन् । सेनायां तीव्रा असन्तृप्तिः प्रवृध्दा आसीत् ।
राज्ञी 'त्वरा खलु अविवेकिनां लक्षणम्। सेनायाम् अपि योग्यसज्जता नास्ति। एवमेव युध्दकारणेन प्रजानां कष्टं भवेत् । नोचेत् प्रजानां सहानुभूतिः नष्टा स्यात् 'इति स्वाभिप्रायं प्रकतितवती। एतम् अभिप्रायं सर्वे अङ्गीकृतवन्तः।
== अग्निज्वाला ==
गीतैः, उत्सवैः, मनोरञ्जककार्यक्रमैः सैन्ये असन्तृप्तिः इतोऽपि ज्वालनीया इति महिलाः अपि कटिबद्धा:। या काऽपि प्रगतिः भवतु सा वार्ता राज्ञीं प्राप्नोति स्म ।
फेब्रवरीमासे पूर्णिमाया: अनन्तरम् एकस्मिन् दिने तात्यातोपे राज्ञ्या मेलितुमागतवान् । सः स्वेन सह एकं पत्रम् आनीतवान् । तस्मिन् पत्रे " इतोऽपि विलम्बः नोचित:। हृदये गाहितानि शूलानि इतोऽपि कियत्कालं सहामहे । उत्तिष्ठन्तु न्याय्यं प्राप्तुं आत्मसमर्पणाय सिध्दा: भवन्तु । केचन दुष्टाः पालकाः एतं देशं दास्यतागर्ते क्षिप्तवन्तः सन्ति । तान् बहिष्कुर्वन्तु । देशं स्वतन्त्रं कुर्वन्तु । स्वीयाधिकारान् रक्षन्तु " इत्यासीत् ।
पङ्क्तिः ८१:
मेमासस्य एकत्रिंशत् दिनाङ्के रविवासरे देशे सर्वत्र प्रजाभिः एककाले क्रान्तिः करणीया इति निश्चितम्।
कमलं विद्यादेव्याः सरस्वत्याः, धनदेव्याः लक्ष्म्याः च प्रतीकम् । तदेव कमलं एतस्याः क्रान्ते: चिह्नम् अभवत् । किन्तु बारकपुरे निश्चितदिनात् पूर्वमेव क्रान्तिः आरब्धा। मेमासस्य दशमदिनाङ्के मीरठनगरे क्रान्त्याः ज्वालाः विजृम्भिताः। मीरठ तथा देहली एवं नगरद्वये सैनिकाः एकत्रिता:। देहलीसिंहासनं स्वायत्तीकृतवन्तः । बहदुरशाहं भारतदेशचक्रवर्तिनं घोषितवन्तः।
== सैनिकानां क्रान्तिः ==
स्वानुकूलं लिखितेषु इतिहासग्रन्थेषु आङ्ग्लेयाः एतं विषयं सैनिकानाम् अतिक्रमणमिति वर्णितवन्तः । एतेन केवलं सैनिका: एव एतस्मिन् भागं स्वीकृतवन्त: इति, अन्यजना: न स्वीकृतवन्त इति भावः कल्पितः अभवत् ।
एतस्मिन् प्रजाविप्लवे सैनिकाः पुरोभूताः सन्ति इति तु सत्यम्, किन्तु क्रान्त्यां भागभाज: न केवलं सैनिका: अपि तु राजानः, महाराजाः, सरदाराः (सामन्ताः), पेश्वा, नवाबजनाः (महमम्दीयराजाः), देहली चक्रवर्ती, अपि च हिन्दवः, महम्म्दीयाः, मौल्वीजनाः, पुरोहिताः इत्यादयः सर्वविधजना: आसन् । महिलाः अपि प्रमुखं स्थानम् ऊढवत्यः । १९,२० मासपर्यन्तं सङ्ग्रामः प्रचलन् एव आसीत् ।
पङ्क्तिः ८७:
ईशवीये १७५२ तमे वर्षे मुघलचक्रवर्तिनः पुरतः जानुभ्याम् अवन्म्य वाणिज्यार्थम् अनुमतिं यदा प्रार्थितवन्तः तदा आङ्ग्लेयानां केवलं त्रयः भाण्डाराः एव आसन्, २० चतुरस्रक्रोशमिता भूमिरेवासीत् । शतवर्षेषु लक्षयोजनानां भूमिः तेषां वशं गता ।
देशस्य आर्थिकराजनैतिकस्थानद्वयं स्ववशे कृत्वापि सन्तॄप्तिं न प्राप्तवन्तः आङ्ग्लेयाः । भारतदेशेन तेषां मतधर्मोऽपि स्वीकरणीय इति ते भावयन्ति स्म । क्रैस्तमतं देशे व्यापयितुं शतधा प्रयतन्ते स्म । एतदपि प्रजानां उद्वेजनाय एकं कारणं जातम् ।
== वह्निः प्रासरत् ==
राज्ञ्याः दिनचर्यायां किमपि परिवर्तनं नासीत् । पूजा, प्रार्थना इत्यादि दैनन्दिनकार्याणि कुर्वती एव युध्दार्थं सन्नाहं करोति स्म ।
कस्मिंश्चित् दिने कोऽपि तां पृष्टवान् " राज्ञि ! इदानीं एतद् युध्दशिक्षणादिकं किमर्थम् ? इतोऽपि अधिकसमयं भगवतः सेवायै भवती दातुं प्रभवति खलु " इति ।
पङ्क्तिः १०५:
१८५८ मार्च मासे २३ दिनाङ्के रोज् इत्यस्य नायकत्वे आङ्ग्लसेना झान्सीराज्यं प्रति युध्दं प्रकटितवती ।
१२ दिनपर्यन्तं लघुराज्यं झान्सी विज्यपराजययोर्मध्ये डोलायमानम् आसीत् । एकत्र विजयो लभ्यते चेत् अन्यत्र पराजयः प्राप्यते स्म । अनेके समर्थाः नायकः विगतजीवाः अभवन् । दौर्भाग्यवशात् बाह्यतः किञ्चित् साहाय्यम् अपि न लब्धम् ।
== अपरा दुर्गादेवी ==
आङ्ग्लेयानां सेना विजृम्भ्य, झान्सीराज्यं यदा प्राविशत् तदा राज्ञी आयुधानि धृत्वा युध्दाय सन्नद्धा अभवत्। पुरुषवेषं धृत्वा अपरदुर्गादेवी इव अयुध्द्यत् । सा यत्र प्रत्यक्षीभवति स्म तत्र आङ्ग्लसेना पलायते स्म । झान्सीराज्यस्य महिलासैन्यं पुरुषैः समानम् आसीत्। महिलाभिः कृतं वीरोचितं युध्दं दृष्ट्वा स्वयम् आङ्ग्लसेनानायकः रोज आश्च्र्यचकितो जातः ।
क्रमशः स्थितिः स्ववशात् च्यवते इति ज्ञातवती राज्ञी । तत्क्षणं स्वीयजनानां समावेशं कल्पितवती । " अस्माकं सैन्याधिपति:, वीरसैनिका:, शतध्निदलानि च नष्टानि सन्ति। दुर्गस्थेषु पञ्चसहस्रसैनिकेषु अधुना पञ्चशतं अपि जीविताः न सन्ति । दुर्गमपि सुरक्षितं नास्ति । अतः वयं यावच्छक्यं शीघ्रं एतं प्रदेशं त्यक्त्वा गच्छामः । पुनः सैन्यं समीकृत्य आक्रमणं कुर्मः " इत्युक्तवती । सर्वे तस्याः वचनम् अङ्गीकृतवन्तः ।
कांश्चन वीरान् स्वीकृत्य राज्ञी शत्रुसैनिकानां पङ्क्तीः विदारयन्ती झान्सीतः बहिः सवेगं निर्गतवती ।
बोकर् इति कश्चन आङ्ग्लाधिकारी अल्पां सेनां स्वीकृत्य ताम् अनुधावितवान् । तदा य: सङ्घर्ष: जात: तस्मिन् सः व्रणित: भूत्वा मन्दवेगः अभवत् । राज्ञ्याः अश्वोऽपि तस्मिन् घर्षणे मृतः किन्तु राज्ञी न विचलिता । ततः सा ’काल्पि’ इति स्थानं गत्वा तात्यातोपेमहोदयेन, रावसाहेबेन च मिलितवती ।
== दीपनिर्वापणात् पूर्वम् ==
काल्पिमध्येऽपि राज्ञी सैन्यसमीकरणमारब्धवती । रोज् स्वसैन्येन काल्पिम् अपि निबध्दवान् । पराजयः अवश्यं भवतीति राज्ञ्या ज्ञातम् । अनुक्षणं रावसाहेबः, तात्यातोपे, अन्ये केचन योध्दारः राज्ञ्या सह ग्वालियर् प्रति प्रस्थितवन्तः ।
गोपालपुरं प्राप्तवन्तः । तस्यां रात्रौ रावसाहेब- तात्या-बान्दासाहेबानां मध्ये समावेशः प्राचलत् । अनन्तरदिने ते राज्ञ्या सह समाविष्टाः । ’इतः युध्दं नैव कर्तव्यम्’ इति तेषामभिप्रायः ।
किन्तु राज्ञी "वयं यावत्पर्यन्तं दुर्गे आस्म तावत्पर्यन्तं आङ्ग्लेयान् विरुध्द्य युध्दं कृतवन्तः । युध्दम् अधुनापि करणीयम् एव । ग्वालियर् दुर्गं समीपे एवास्ति । तत्रत्यः राजा आङ्ग्लेयानाम् अनुकूलः इति तु स्त्यमेव । किन्तु सेना, प्रजाश्च आङ्ग्लेयानां विरुध्दाः इति अहं जानामि । तावदेव न, तत्र् विस्फोटनसामग्रय:, गोलकास्त्राणि च अधिकप्रमाणेन लभ्यन्ते" इति दृढमुक्तवती ।
राज्ञ्याः सूचनां सर्वे अङ्गीकृतवन्तः । अल्पसेनया यदा तात्या तत्र गतवान् तदैव तत्रत्यसेनातः अधिकसंख्याकाः तस्य पक्षं प्राप्तवन्तः । ग्वालियर्महाराजः आगरां गत्वा आङ्ग्लेयानां शरणं गतः । तावत्पर्यन्तम् उत्तमम् एव आसीत् । किन्तु पूर्वतनमूर्खत्वम् एव पुनरावृत्तम् । राज्ञीं, तस्याः सुहृदः च विहाय सर्वे दलपतयः आनन्दे मग्नाः । राज्ञ्या दूरदृष्ट्या कृतां सूचनां ते न परिगणितवन्तः? । एतादृश-आनन्देभ्यः दूरं स्थिता राज्ञी ग्वालियर् दुर्गस्थानि मुख्यस्थानानि परिशील्य कानिचन् परिवर्तनानि सूचितवती । किन्तु अन्यदलपतयः तस्याः सूचनाः न लक्षितवन्तः ।
== युध्दम् समाप्तम् ==
इतोऽपि कञ्चित्कालं प्रतीक्षां कर्तुं सिध्दो नासीत् रोज् । ईशवीये १८५८ तमे वर्षे जूनमासे १७ दिनाङ्के युध्दं पुनरारब्धम् । राज्ञी पुरुषवेषं धृत्वा युध्दाय सिध्दा अभवत् ।
रोज् एकं कुतन्त्रं रचितवान् । ग्वालियर्तः पलायित्वा आगरामध्ये आङ्ग्लेयानाम् आश्रयं प्राप्तवन्तं जयाजीरावसिन्धियां ग्वालियर् प्रति आनायितवान् । " महाराजं जयाजीरावं पुनः सिंहासने प्रतिष्ठापयितुमेव वयं युध्दं कुर्मः । अतः पुनः ये एतत्पक्षम् आगन्तुम् इच्छन्ति तान् सैनिकान् क्षाम्यामः " इति रोज् प्रकटितवान् ।
पङ्क्तिः १३२:
बाबागङ्गदासः पवित्रस्वरेण उक्तवान् " प्रकाशस्य अन्तः नास्ति । प्रतिकणं सः निगूढं तिष्ठति । योग्ये समये स्वयं प्रकाशते च" इति।
राज्ञ्याः पार्थिवशरीरं तत्रैव अग्निज्वालाभ्यः आहुतीकृतम् ।
== चैतन्यमूर्तिः महिला ==
[[Imageचित्रम्:Ranilaxmibai-1.JPG|right|thumb|180px|आग्रानगरे स्थिता लक्ष्मीबाय्याः प्रथिमा]]
झान्सीराज्ञी लक्ष्मीबायी केवलं भारतदेशे एव न, अपि च सर्वस्मिन् विश्वे महिलाजाते: गौरवं कल्पितवती । तस्याः जीवनं पवित्रम् । परिपूर्णनारीत्वस्य, साहसस्य, अमरदेशभक्तेः, आत्मस्मर्पणस्य च उत्तेजकरा गाथा एव तस्याः जीवितम् ।
सा महिला, तथापि सिंहसमानतेजस्विनी । राजकर्येषु चतुरा । अन्यसमयेषु साधारणमहिलाभिः समाना । आयुधं धृत्वा युद्धरङ्गे स्थिता सा अपरकालीदेवी एव । वयः अल्पं, तथापि तस्याः दीर्घदर्शितायां, दृढनिर्णये च पक्वता स्पष्टं दृश्यते स्म ।
पङ्क्तिः १५१:
[[वर्गः:भारतस्य इतिहासः]]
 
[[af:Lakshmibai]]
[[bn:লক্ষ্মী বাঈ]]
[[de:Lakshmibai]]
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्