"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
== अनुल्लेख्याः विषयाः ==
''एषः प्रभागः हिन्दीविकिपीडियायां स्थितात् नीतिपृष्ठात् उद्ध्रियते। परन्तु संस्कृतविकिपीडियायाः भिन्नां प्रकृतिमालक्ष्य कानिचित् परिवर्तनान्यपि विहितानि।''
एतादृशाः विषयाः विकिपीडियायाम् अनुल्लेख्याः-
* "'''मम सारमेयः लम्बकर्णो नाम'''": यथा हि लम्बकर्णो नाम भवतः सारमेयो भवेत्। येन द्वित्राः स्थानिकाः कुक्कुरस्पर्धाः जिताः स्युः। भवतः सम्बन्धिनः प्रतिवासिनश्च तं बहु मन्यन्ते नूनं, परन्तु नायं शेषलोके ज्ञायते। अर्थात् नास्मै लम्बकर्णाय एतादृशानि स्रोतांसि (स्वतन्त्राणि विश्वासार्हाणि च) उपलभ्यन्ते यत्रायं विषयः महत्त्वं भजेत। अतो विकिपीडियायै अनुल्लेख्यो लम्बकर्णः। कामं भवतु तस्य लेखनं भवतः ब्लागपुटे अथवा फेस्बुक्-पृष्ठे।
 
"https://sa.wikipedia.org/wiki/विकिपीडिया:उल्लेख्यता" इत्यस्माद् प्रतिप्राप्तम्