"कारैक्काल् अम्बा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
==जननम्==
तमिळ्नाडु प्रदेशेचोळ्साम्राज्ये शिवभक्त्या स्वस्य सुन्दरशरीरमपि त्यक्तवत्याः अम्बायाः नाम एव कारैक्काल् अम्बा । तमिळ्नाडु मध्ये प्रसिद्धा: शिवस्य दासाः ६३ आसन् । तान् “ नायन्मार् “ इति नाम्ना आह्वयन्ति । तेषु अन्यतमा अस्ति कारैक्काल् अम्बा ।
चोळराज्ये समुद्रतीरस्थ वाणिज्यक्षेत्रम् अस्ति “ कारैक्काल् “ । तत्र धनदत्तः नाम कश्चित् वणिक् आसीत् । तस्य अतिसौन्दर्यवती एका पुत्री आसीत् ।तापस:।तपो फलेन प्राप्तायाः तस्याःकृते “ पुनितवती “ इति नामकरणं कृतवान् धनदत्तः । पुनितवती बाल्यकाले एव नितरां शिवस्य चिन्तनं कुर्वती आसीत् । सा शिवभक्तान् सर्वानपि शिवः एव इति मत्वा तेषां सेवां करोति स्म । सा विवाहवयस्का अभवत् ।
==गृहस्थाश्रमः==
नागपट्टिनं नाम एकस्मिन् नगरे “ निधिपतिः “ नाम कश्चन वणिक् आसीत् । तस्य पुत्रः आसीत् “ परमदत्तः “ । तेन साकं पुनितवत्याः विवाहः जातः । धनदत्तस्य पुनितवती अनन्या पुत्री । अतः सः तस्यै गृहस्ताश्रम प्रवर्तनार्थं तत्रैव सर्वविध सौकर्यानि कल्पितवान् । तयो:कृते कारैक्काल् प्रदेशे एव पृथक् गृहं , प्रभूतं धनञ्च व्यस्थापितवान् । परमदत्त: तत् धनम् उपयुज्य वाणिज्यं कृत्वा सम्पादयन् आसीत् । तस्य पत्नी अपि सुगुणवती आसीत् । सा शिवम् स्मरन्ती शिवभ्क्तेभ्यः भोजनं , धनं इत्यादीनि दत्वा गृहस्थाश्रमधर्मान् सुष्टु परिपालयन्ती आसीत् । एवम् तयोः जीवनं सम्यक् प्रचलत् आसीत् ।
"https://sa.wikipedia.org/wiki/कारैक्काल्_अम्बा" इत्यस्माद् प्रतिप्राप्तम्