"नेहरुजयन्ती" इत्यस्य संस्करणे भेदः

बालदिनम् को अनुप्रेषित
(लघु) Robot: Fixing double redirect to बालोत्सवः; अंगराग परिवर्तन
पङ्क्तिः १:
#पुनर्निदेशन [[बालोत्सवः]]
#REDIRECT [[बालदिनम्]]
श्री [[जवाहरलालनेहरुः]] भारतस्य प्रथमप्रधानमन्त्री आसीत् । महान् देशभक्तः श्रेष्ठलेखकः पण्डितः जवहारलालनेहरुः बालैः सह सदा वार्तालापं करोति स्म । बालान् प्रति प्रीतिं दर्शयति स्म । अत एव नायकाः श्री जवाहरलालमहोदयस्य जन्मदिनं तस्य इच्छानुसारेण [[बालदिनम्]] इति आचरन्ति ।
== जन्म बाल्यं च ==
पण्डितजवाहरलालनेहरुः १८८९ तमे वर्षे नवम्बरमासस्य १४ तमे दिने जन्म प्राप्तवान् । अलहाबाद नगरे प्रख्यातः न्यायवादी श्री [[मोतिलालनेहरुः]] पण्डित जवहारलालनेहरु महोदयस्य पिता ।
माता च स्वरूपराणी इति । नेहरुपरिवारस्य गृहं राजगृहमिव आसीत् । आनन्दभवनमिति तस्य नाम । तत्र श्री जवहारलालनेहरुः राजकुमारः इव आसीत् । श्रीमोतिलालनेहरुः अतीव कुशलः अपि आसीत् । अतः बाल्ये शिक्षकः बालकजवाहरलालनेहरुं गृहे एव पाठयितुं नियोजितः आसीत् ।
जवाहरलालनेहरुमहोदयस्य विजयलक्ष्मी कृषा इति च सोदर्यो स्तः । आङ्गलभाषाबोधनार्थम् एकः आङ्गलशिक्षकः आसीत् । तस्य नाम फर्डिनेण्ट ब्रुक्स । एषः जवाहरलालमहोदयाय बाल्ये एव पठनासक्तिं वर्धितवान् । माता च रामायणमहाभारतकथाः वदति स्म । कथाश्रवणं जवाहरलालाय अतीव इष्टम आसीत् ।
मुन्शी मुबारक अली नामकेन सेवकेन जवाहरलालनेहरुः स्वातन्त्र्यवीराणां देशभक्तानां विषये ज्ञातवान्। एतेन बालये एव आङ्गलानां सर्वकारविषये तस्य मनसि कोपः समभवत्। भारतस्य दास्यताविषये अपि सः ज्ञातवान् ।
== विदेशे शिक्षणम् ==
पञ्चदशे वयसि जवाहरलालः विद्याभ्यासार्थम् इङ्ग्लण्डदेशं गतवान् । तत्र ह्यारो विद्यालये प्रौढशिक्षणं प्राप्तवान् । अनन्तरं ट्रिनिटिमहाविद्यालये रसायनशास्त्रं सस्यशास्रं भूगर्भशास्त्रम् च एतैः साकम् इतिहास- अर्थशास्त्र-राजनीतिशास्त्रमपि अधीतवान् । १९१० तमे वर्षे पदवीधरः सञ्जातः । १९१२ तमे वर्षे न्यायशास्त्रे च पदवीं प्राप्तवान् ।
भारतस्य दास्यतां चिन्तयन् रुष्टः भवति स्म । [[इटली]]देशस्य स्वातन्त्र्यवीरस्य [[ग्यारीबाल्डी]] महोदयस्य जीवनचरित्रं पठन देशभक्त्या जागरितः जवाहरलालनेहरुः अखिलभारतीयकाङ्ग्रेससंस्थां प्रविश्य स्वात्न्त्र्यान्दोलने भागं स्वीकर्तुं पित्रा प्रार्थितः ।
== जीवनम् ==
१९१६ तमे वर्षे जवाहरलालनेहरुः मेलकौलराजपतिदेवीदम्पत्योः सुतां कमलां परिणीतवान् । १९१७ तमे वर्षे जवाहरलालनेहरुमहोदयस्य प्रथमा पुत्री सञ्जाता । इन्दिराप्रियादर्शिनी इति तस्याः नाम कृतवान् । श्रीमोतिलालनेहरुमहोदयस्य सुतस्य राजकीयप्रवेशः इष्टः न आसीत् । १९१९ तमे वर्षे जवाहरलालनेहरुः बार एटला पदवीं प्राप्य अलहाबादश्रेष्ठन्यायालये न्यायवादिवृत्तिम् आरभ्य अग्रे महात्मागान्धिनः प्रभावात् भारतीय- स्वातन्त्र्यान्दोलनम् प्रविष्टवान् ।
== स्वातन्त्र्यान्दोलने भागः ==
[[बालगङ्गाधरतिलकः|बालगङ्गाधरतिलकमहोदयस्य]] श्रीमती [[अनिबेसेन्ट]]महोदयायाः च [[होमरुललीग्]] आन्दोलने जवहरलालनेहरुः अपि प्रविष्टवान् । अनन्तरं न्यायवादिवृत्तिं त्यक्त्वा पूर्णतया स्वातन्त्र्यान्दोलनकार्येषु तत्परः अभवत् । श्री मोतिलालनेहरुः अपि होमरुललीगआन्दोलने भागं स्वीकृतवान् अस्य आन्दोलनप्रवेशस्य मुख्यं कारणं [[जलियनवालाबागहत्याकाण्डः]] । १९२० तमे वर्षे श्री मोतीलालनेहरुः न्यायवादिवृत्तिं त्यक्त्वा स्वातन्त्र्यान्दोलने एव कार्यं कृतवान् ।
१९२० तमे वर्षे [[असहकारान्दोलनम्|असहकारान्दोलनं]] [[विदेशिवस्त्राणां बहिष्कारः]] विदेशीवस्त्राणां सार्वजनिकस्थलेषु दाहनम् इत्यादिकार्यक्रमाः प्राचलन् । अनेके वीराः बन्धिताः अभवन् । श्री जवहारलालनेहरुः श्रीमोतिलालनेहरुः १९२१ तमे वर्षे लखनौकारागृहे आस्ताम् । तत्रैव तन्तुनिर्माणं पठनम् एतयोः कार्याणि अभवन् । १९२२ तमे आन्दोलनं स्थगितम् अभवत् । तदा जवाहरलालनेहरुः कारावासात् बहिः आगतवान् ।
श्री जवहारलालनेहरुः १९२३ तमे वर्षे अलहाबादनगरसभाध्यक्षः अभवत् । श्रीमती [[कमलानेहरुः]] अपि उत्तमकार्याणि कृतवती । अलहाबादमहिलाकाङ्ग्रेसनायिका भूत्वा अनेक कार्याणि कृतवती । १९२४ तमे वर्षे श्रीजवाहरलालनेहरुः अखिलभारतीयकाङ्ग्रेससंस्थायाः कार्यदर्शी इति नियुक्तः ।
पङ्क्तिः २२:
एतस्मिन् काले एव जवाहरलालनेहरुः [[डिस्कवरी आफ् इण्डिया]] । पुस्तकं लिखितवान् । भारतीय- इतिहासं स्पष्टतया अत्र दर्शितवान् अस्ति ।‘अनेन विश्वे प्रख्यातेषु लेखकेषु नेहरु अन्यतमः इति प्रसिद्धः अभवत् ।
श्री जवाहरलालनेहरुः इन्दिराप्रियदर्शिनीं प्रति यानि पत्राणि प्रेषितवान् तत्र मार्गदर्शनं कृतवान् अस्ति । एतानि पत्राणि अपि ‘लेटर्स् टु इन्दिरा ‘इति प्रसिध्दानि सन्ति । कारागृहादेव प्रेषितानि एतानि पत्राणि ।
१९४७तमवर्शस्य आगस्ट१५ तमे दिने मध्यरात्रे अन्तिमः वायिसरायः [[लार्ड मौण्टब्याटन्]] महोदयः नियमानुसारं प्राशासनिकाधिकारं हस्तान्तरितवान् । तदा एव पाकिस्तानदेशः अपि स्वतन्त्रः अभवत् । श्री जवहरलाल नेहरुः स्वतन्त्र भारतस्य प्रथमप्रधानमन्त्री अभवत् ।[[सरदारवल्लभभायीपटेलः]] उपप्रधानमन्त्री अभवत् । श्री पटेलमहोदयः संस्थानानां भारते विलीनीकरणार्थम् उत्तमं कार्यं कृतवान् । ततः १९५० तमे वर्षे जनवरी मासस्य२६ तमे दिने भारतदेशः स्वतन्त्र्यगणराज्यम् इति घोषितः अभवत् । भारतीयसंविधानं च रचितम् अभवत् ।
१९४८ तमे वर्षे महात्मा गान्धिनः हत्या अभवत् । भारते अनक्षरता दारिद्र्यं निरुद्योगः शिक्षासमस्यादि बहुसमस्याः आसन् । देशस्य अभिवृद्धिकार्यार्थं पञ्चवर्षिकयोजना आरब्धा अभवत् । भारतदेशः शान्तिप्रियदेशः अतः पञ्चतत्वानि अङ्गीकृतानि अभवन् । शान्तियुतं जीवनम् , आक्रमणनिरोधः समानताहितरक्षणं , आन्तरिकव्यवहारेषु अन्यदेशस्य हस्तक्षेपनिरासः, परस्परं गौरवः परमाधिकारश्च पञ्चतत्वानि ।
श्री जवहरलालनेहरुः स्वाधिकारसमये जनेभ्यः ”आराम हराम है” इत्यवदत । कार्येषु प्रवृत्ताः भवन्तु इति च मार्गदर्शनं कृतवान् । कलासाहित्यप्रियः इतिहासज्ञः धीरनायकः श्री जवाहरलालनेहरुः सततं १७ वर्षाणि यावत् भरतस्य प्रधानमन्त्रिस्थाने कार्यं कृतवान् ।
विविधकार्यार्थं देशे सञ्चरन् श्रीजवाहरलालनेहरुः प्रथमतः बालान् दृष्ट्वा शुभाशयं वदति स्म । पाटलपुष्पं सर्वदा तस्य वस्त्रे धरति स्म । एतस्य पुत्र्याः विवाहः श्री फिरोजगान्धिमहोदयेन साकं अभवत् । सञ्जयः राजीवः च पौत्रौ । श्रेष्ठनायकः सन् अपि सः गृहे श्रेष्ठपिता श्रेष्ठः पितामहः इति ख्यातः अभवत् । श्री जवहरलालनेहरुः महाभागः [[भारतरत्नप्रशस्तिः|भारतरत्नप्रशास्त्या]] पुरस्कृतः ।
१९६४ तमे वर्षे पार्श्ववायुरोगपीडितः श्रीजवाहरलालनेहरुः दिवङ्गतः अभवत् । देशे सर्वत्र जनाः दुःखिताः अभवन्। श्रीजवाहरलालनेहरुमहोदयस्य जन्मदिनं बालदिनमिति आचरन्ति । तद्दिने बालानां हितार्यं कार्यक्रमान् आयोजयन्ति । देशे सर्वत्र बालानां योगक्षेमार्थम् उत्तमजीवननिर्माणार्थं च प्रोत्साहनं दीयते ।
"https://sa.wikipedia.org/wiki/नेहरुजयन्ती" इत्यस्माद् प्रतिप्राप्तम्