"आत्म" इत्यस्य संस्करणे भेदः

आत्मनिरूपणम् ज्ञानाधिकरणमात्मा।स द्विविधः।... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०३:२३, १४ अक्टोबर् २०१२ इत्यस्य संस्करणं

आत्मनिरूपणम् ज्ञानाधिकरणमात्मा।स द्विविधः।जीवात्मा,परमात्मा चेति।तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव। जीवस्तु,प्रतिशरीरं भिन्नो विभुर्नित्यश्च। आत्मनो लक्षणम्----ज्ञानस्य अधिकरणं ज्ञानाधिकरणम्।ज्ञानस्येत्यत्र षष्ठ्याः आधेयत्वमर्थः।अधिकरणस्य अधिकरणताश्रयत्वमर्थः।तथाच,ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणताश्रयत्वं आत्मनो लक्षणम्। आत्मनि समन्वयः----ज्ञाननिष्ठा या आधेयता इत्युक्ते आत्मनि ज्ञानमस्तीत्याकारक प्रतीतिसिद्धा ज्ञाने विद्यमाना आधेयता। तन्निरूपिता या अधिकरणता इत्युक्ते आत्मनिष्ठा अधिकरणता। तदाश्रयत्वस्य आत्मनि सत्वात्समन्वयः। नन्विदानीं काले अतिव्याप्तिः।अतस्तद्वारणार्थं ज्ञाननिष्ठ आधेयतायां समवायसम्बन्धावच्छिन्नत्वरूप विशेषणं देयम्। एवं गुणत्वावच्छिन्न आधेयतामादाय पृथिव्यादौ अतिव्याप्तिवारणार्थं ज्ञानत्वावच्छिन्नत्वरूपविशेषणं देयम्। एवं च,समवायसम्बन्धावच्छिन्न, ज्ञानत्वावच्छिन्न आधेयतानिरूपित अधिकरणताश्रयत्वम् आत्मनो लक्षणमिति निष्कर्षः। विभागस्य शाब्दबोधो यथा-----जीवात्मत्व,परमात्मत्वरूप धर्माभिन्न विभाजकधर्मद्वयान्यतरवान् आत्मा इति बोधः।

"https://sa.wikipedia.org/w/index.php?title=आत्म&oldid=209976" इत्यस्माद् प्रतिप्राप्तम्