"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Chhattisgarh in India (disputed hatched).svg|thumb|]]
छत्तीसगडराज्यं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.२००० तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तु शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ [[भारतम्|मध्यभारतस्य]] किञ्चन राज्यं भवति। [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]] आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२०००’ तमे संवत्सरे नवम्बर मासे १ दिनाङ्के पृथक् राज्यत्वेन परिगणितम्। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये। छत्तीसगढराज्यस्य राजधानी [[रायपूर्]] भवति। भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति। अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति। अस्य राज्यस्य वायव्ये [[मध्यप्रदेशराज्यम्|मध्यप्रदेशः]], पश्चिमे [[महाराष्ट्रम्|महाराष्ट्रा]], दक्षिणे [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]],पूर्वे [[ओरिस्साराज्यम्|ओरिस्सा]], ईशान्ये [[झारखण्डः]], उत्तरे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशादयः]] सन्ति। “छत्तीस् घरी” एषा भाषा [[हिन्दी]]भाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति। ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति। छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति। नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति। छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण २००४ तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति। अस्य राज्यस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशात्]] विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति।
==नामव्युत्पत्तिः==
अस्य राज्यस्य “छत्तीसगढ” इति नाम्ना व्यवहारः कुतः? अत्रत्याः प्राचीनाः शासकाः ३६ राज्येषु शासनं कुर्वन्ति स्म। [[हिन्दीभाषा|हिन्दीभाषया]] छत्तीस् नाम ३६ संख्या, "गढ्" इत्यस्य दुर्गम् इति अर्थः। तानि राज्यानि एवं सन्ति -- रतनपूर्, विजयपूर्, खरौण्ड्, मारो, कौट्गढ, नवागढ्, सोन्दि, औखर्, पदर्भट्ट्, सेम्रिया, चम्पा, लाफा, छुरि, केण्ड, माटिन्, अपरोरा, पेण्ड्रा, कुकुटिखण्ड्रि, राजपुर्, पटान्, सिमगा, सिङ्गारपुर्, लवन्, ओमेरा, दुर्ग, सरधा, सिरसा, मेन्हदि, खल्लारि, सिर्पुर्, फिगेश्वर्, राजिम्, इन्घङ्गन् गढ, सुवर्मर्, तेङ्गान् गढ तथा अकाल्तारादि इति।
"https://sa.wikipedia.org/wiki/छत्तीसगढराज्यम्" इत्यस्माद् प्रतिप्राप्तम्