"अण्डमाननिकोबारद्वीपसमूहः" इत्यस्य संस्करणे भेदः

(लघु) Sbblr geervaanee इति प्रयोक्त्रा अण्डमान् निकोबार् च द्वीपसूहः इत्येतत् अण्डमाननिकोबारद्वीपसमूहः इ...
No edit summary
पङ्क्तिः १:
[[चित्रम्:Andaman and Nicobar Islands in India (disputed hatched).svg|thumb|]]
 
'''अण्डमान् निकोबार् च द्वीपौ''' भारतस्‍य केन्द्रशासितप्रदेशौ स्तः।
अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे (बङ्गालोपसागरे) एतानिमुक्ताहारमिव प्रकाशन्ते । अत्र ५७० तः अधिकानि द्वीपानि स्पष्टतया द्र ढीकृतानि सन्ति । एतेषां विस्तीर्ण ८२४८ चतुरस्र कि.मी । अतीव बृहत् द्वीपमेव अण्डमान् द्वीप । अस्य राजधानी पोर्टब्लेर । अस्य दीर्घता ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जन मलेशियाययन्मारवंशीयाः सन्ति । सा.श.१७-१८ शतमानकाले युरोप्रदेशीयाः अत्रागत्य स्थितवन्तः । [[भारतम्|भारतस्य]] लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इट्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्तिस्म ।
 
==स्वान्तन्त्र्यस्मारकम्==
कारागृहे ६९८ कोष्ठानि आसन् । प्रमुखाः स्वातन्त्र्यवीराः [[विनायकदामोदरसावरकरः|वीरसावरकरः]], सोहनसिंहः भायीपारमानन्दः, नन्दगोपालवामनजोषी इत्यादयः अत्र बद्धाः आसन् । अधुनापि एतत् भवनं स्वातन्त्र्यान्दोलनस्य प्रतिकत्वेन रक्षितम् । अत्र कारागृहे बान्धिनः अतीव कष्टम् अनुभवन्ति स्म । तेभ्यः उत्तमाहारः न दीयते स्म । ते बन्धिनः प्राणिनः इव जीवनं यापयन्ति स्म । भूषणरे किशोरनामधारी इत्यादयः [[भारतस्वातन्त्र्ययोद्धारः]] जुगुप्सया आत्माहुतिं कृतवन्तः। सा.श.१९४२-४३ वर्ष समये एतत् कारागृहं जपान् देशीयानां वशे आसीत् । [[सुभाषचन्द्रबोसः]] अपि एतत् दृष्टवान् । स्वातन्त्र्यप्राप्तेः पश्चात् एतत् राष्ट्रियस्मारकम् अभवत् । सा.श.१९७९ तमे वर्षे प्रधानमन्त्री श्री [[मोरार्जी देसायी]] अत्रागत्य हुतात्मभ्यः श्रध्दाञ्जलिम् अर्पितवान् । इदानी अत्र जनाः दर्शनार्थम् आगच्छन्ति । सायङ्काले अत्र दीपालङ्कारः भवति । सागरतीरे प्रकाशमानं भवनं मेरिनाबीच् गान्धीपार्क इत्यादीनि आकर्षणीयानि स्थानानि सन्ति ।
 
==पर्यटककेन्द्रम्==
अत्र कश्चन वस्तुसङ्ग्रहालयः अस्ति । स्वातन्त्र्यवीराणां नामानि लिखितानि सन्ति । सदा स्वातन्त्र्यज्योतिः ज्वलन्ती अस्ति । सागरतीरे नारिकेलवृक्षाणा पक्तिः प्रवलपर्वतः हरिद्वर्णवन पर्वताः सर्वाणि सुन्दराणि सन्ति । सागेर्तरण विहारः स्नान इत्यादि आनन्ददायकानि भवन्ति । द्वीपानां प्रवासः अत्रायोजितः भवति । द्वीपविहारिणां नौकाद्वारा हयावलाक् चेता सामिल् इत्यादयः पश्यन्ति । त्रिदिनेषु एकवारं प्रवासव्यवस्था अस्ति । विमानमार्गः - पोर्टब्लेर् पर्यन्तं विमानसम्पर्कःअस्ति । जलमार्गः – [[चेन्नै]]तः विशाखापत्तनतः कोलकोतातः च नौकाः चलन्ति । द्वीपे सञ्चाराय फेटी सर्विस् वादन नौकाव्यवस्थाः सन्ति । वसतिकृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसति गृहाण्यपि सन्ति । कोल्कोतातः १२०५ कि.मी. दूरे चैन्नैतः ११९१ कि.मी. दूरे एतदस्ति । अक्तोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः ।
 
सम्बद्धाः-विषया:
"https://sa.wikipedia.org/wiki/अण्डमाननिकोबारद्वीपसमूहः" इत्यस्माद् प्रतिप्राप्तम्