"चालुक्यवंशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३०:
==कल्याणीचालुक्याः==
राष्ट्रकूटानां काले क्षीणं चालुक्यसाम्राज्यं द्वितीयतैलपः राष्ट्रकूटानां तृतीयं कृष्णं पदच्युतं कृत्वा चालुक्यरज्यस्य अनेकप्रदेशान् स्ववशान् अकरोत् । अनेन चालुक्यसाम्राज्यं पुनः वैभवमवाप्नोत् । इयं शखा एव कल्याणीचालुक्याः इति प्रथिता अभवत् । अग्रे अयं राजवंशः २५०वर्षाणि प्राशासत् । एते निरन्तरं [[चोळवंशः|चोळराजैः]] वेङ्गिचालुकैः सह च युद्धं कुर्वन्ति स्म । सत्याश्रयः (क्रि.श. ९९७-१००८), प्रथमः सोमेश्वरः (क्रि.श. १०४२-१०६८), षष्टः विक्रमादित्यः (क्रि.श. ९९७-१००८) च अय वंशस्य प्रसिद्धाः केचन राजानः ।
[[कर्णाटकम्|कर्णाटकस्य]] प्रमुखराजवंशीयेषु कल्याणीचालुक्यवंशीयाः अपि प्रख्याताः आसन् । दक्षिणप्रस्थभूमौ द्वितीयशतकतकात् अधिकं कालं एते प्रशासनम् अकुरवन् । दक्षिणभारते एतस्मिन्नेव समये [[चोलवंशः|चोलवंशीयाः]] अपि प्रबलाः आसन् । तत्थापि तेषां राज्यविस्तरणकार्यं कर्तुं चालुक्यवंशीयाः अवकाशं न दत्तवन्तः । बादमीचालुक्यवंशीयाः एव एते स्वपंरपराम् अग्रेऽपि अनुवर्तितवन्तः । [[राष्ट्रकूटवंशः|राष्ट्रकूटवंशीयैः]] जिताः एते दशमशतककाले [[राष्ट्रकूटवंशः|राष्ट्रकूटवंशीयान्]] पराजित्य [[कर्णाटकम्|कर्णाटकस्य]] कल्याणप्रदेशे स्वीयम् अधिकारं प्रतिष्ठापयन् । अतः एतेषां वंशस्य नाम कल्याणीचालुक्याः इत्यभवत् । द्वितीयः तैलपः [[राष्ट्रकूटवंशः|राष्ट्रकूटवंशस्य]] अन्तिमं राजानं द्वितीयकर्णं पराजित्य सा.श.९७३ तमे वर्षे कल्याणनगरे स्वप्रशासनम् आरब्धवान् । तैलपः समर्थः सेनानी आसीत्यतः अनेकान् अधीनराजान् परजितवान् । सर्वेऽपि पराजिताः तैलपस्य प्रशासनम् अङ्गीकृतवन्तः । सा.श.९९२ तमे वर्षे [[चोलवंशः|चोलवंशीयानां]] प्रथमः राजराजेन्द्रः चालुक्यसाम्राज्यम् आक्रान्तुं प्रयत्नं कृतवान् । तदा तैलपः चोलराजान् पराजितवान् [[कर्णाटकम्|कर्णाटकसीमां]] संरक्षितवान् कोङ्कणदेशीयान् सिल्लारराजान् तथा [[सेवुणवंशः|सेवुणवंशीयान्]] च जित्वा अधीनराजन् अकरोत् ।
 
==साम्राज्यविस्तारः==
दक्षिणभारते शिवयोगप्रदेशतः उत्तरे [[गोदावरीनदी|गोदावरीद्याः]] पर्यन्तं राज्यं विस्तीर्णवान् । [[राष्ट्र्कूटवंशः|राष्ट्रकूटवंशीयैः]] स्थापितं साम्राज्यं चोळवंशीयानां हस्ते यथा न गच्छेत् तथा संरक्षितवान् । तैलपः पारमारराजानां मञ्जेत्यादीनाम् आक्रमणं सम्यक् निरुद्धवन् । मञ्जः १६ वारम् आक्रमणम् कृतवान् इति प्रबन्धचिन्तामणिः इति ग्रन्थे आधारः लभ्यते । अन्ततः मञ्जः पराजितः बद्धः अभवत् । अनेन पारमारराजानाम् आक्रमणम् समाप्तम् अभवत् । तैलपः सा.श.९७३ तः ९९६ पर्यन्तं स्वजीवनान्तं यावत् प्रशासनम् कृतवान् । द्वितीयतैलपस्यानन्तरं तस्य सुतः सत्याश्रयः सा.श. ९९६ तः ३००८ वर्षपर्यन्तं प्रशासकः अभवत् । पिता इव सत्याश्रयः अपि सततं साम्राज्यरक्षणार्थं प्रयत्नम् अकरोत् । अस्यापि साम्राज्यरक्षणार्थं सामाजिकसुरक्षायाः कार्यकरणम् अनिवार्यम् अभवात् । पारमारवंशीयाः पुनः आक्रमणं कृतवन्तः । किन्तु शूरः सेनानी सत्याश्रयः पारमारराजान् पराजितवान् । सिळ्ळरराजाः त्रिपुरीदेशीयाः कलचूरिराजाः जिताः अभवन् । चालुक्यवंशीयानां परमाधिकारम् अङ्गीकृतवन्तः । सत्याश्रयः गुर्जरराजान् पराजित्य गुर्जरप्रदेशपर्यन्तं साम्राज्यं विस्तीर्णवान् । एतस्मिन् समये एव [[चोळवंशः|चोळवंशीयः]] राजराजेन्द्रः चालुक्यवंशीयस्य साम्राज्यस्य अनेकनगरेषु आक्रमणं कृतवान् । किन्तु पुनरागतः सत्याश्रयः राजराजेन्द्रं पराजित्य साम्राज्यस्य संरक्षणं कृतवान् । सत्याश्रयस्य आहवमल्लः इरिवबेडङ्गः इत्यादीनि नामानि आसन् । [[कन्नडभाषा]]याः प्रसिद्धकविः रन्नः सत्याश्रयस्याश्रये आसीत् । सत्याश्रमस्य पश्चात् चालुक्यसिंहासने पञ्चमः विक्रमादित्यः, जयसिंहः, प्रथमसोमेश्वरः, सा.श.१०६८ तः १०७६ तमवर्षपर्यन्तं प्रशासनं कृतवन्तः । एतेषां समयेऽपि सततम् आन्तरिकाः बाह्याः च शत्रवः आक्रमणम् अकुर्वन् । विशेषतः [[चोळवंशः|चोळवंशीयाः]] आक्रमणम् कृतवन्तः । सा.श.१० ५४ तमे वर्षे प्रथमः सोमेश्वरः युद्धे [[चोळवंशः|चोळवंशीयान्]] पराजितवान् । चोळराजं राजराजेन्द्रं मारितवान् च । सा.श.१०६३ तमे वर्षे वेङ्गिराजानः दुर्बलाः अभवन् । तस्मिन् समये प्रथमः सोमेश्वरः [[चोळवंशः|चोळवंशीयैः]] जनपालकैः युद्धं कृतवान् । दक्षिणभारते परमाधिकारस्य स्थापनार्थं [[चोळवंशः|चोळराजानां]] नियन्त्रणं साम्राज्यस्य सीमारक्षणं च अनिवार्यं कर्म अमभवत् । द्वितीयः सोमेश्वरः अल्पकालमेव प्रशासनकर्ता अभवत् । अनन्तरं [[षष्टविक्रमादित्यः]] सा.श.१०७६ तः ११२७ वर्ष पर्यन्तं सिंहासनारूढः आसीत् । अस्य समये विशेषतः विक्रमशकः इति नवीनशकवर्षास्य आरम्भः अभवत् । [[षष्टविक्रमादित्यः]] स्वसोदरेणैव अन्तरिककलहं प्राप्तवान् । एतां समस्यां सम्यभिवारणम् कृत्वा पञ्चाशत् वर्षपर्यन्तं प्रशासनं कृतवान् । अनेकदण्डयागाणामपि आयोजनं कृतवान् । क्रान्तिकार्ये प्रवृत्तान् सिळ्ळारराजान् अलुपराजान् दण्डयित्वा स्वपरमाधिकारस्य अङ्गीकारे अनिर्वायताम् आनीतवान् । सा.श. १०८५ तमे वर्षे [[चोलवंशः|चोळवंशीयानां]] राज्ञः विरुद्ध्य आक्रमणम् कृत्वा काञ्चीनगरं वशीकृतवान् । एतस्मिन् समये द्वारसमुद्रे [[होय्सळवंशः|होय्सळवंशीयाः]] प्रवर्धमानाः भवितुम् प्रयत्नं कृतवन्तः । होय्सळराजः [[विष्णुवर्धनः]] [[चलुक्यवंशः|चळुक्यसेनां]] हासनप्रदेशस्य कण्णेगालसमीपे पराजितवान् । पुनः [[चालुक्यवंशः|चाळुक्यवंशीयाः]] होय्सळवंशः|होय्सळवंशीयान्]] पराजित्य अधीनराजन् अकरोत् ।
 
==शकपुरुषः विक्रमादित्यः==
[[विक्रमादित्यः]] [[चोळवंशः|चोळवंशीयां]] राजकुमारीं परिणीतवान् । अतः चोळचालुक्यवंशयोः वैरः उपशान्तः । उत्तरभारते [[नर्मदानदी|नर्मदानदीपर्यन्तं]] साम्राज्यरक्षणे [[विक्रमादित्यः]] समर्थः अभवत् । अस्य भुवनकमलः पेर्मादिदेवः इत्यादयः उपाधयः आसन् । चालुक्यवंशीयानां प्रशासनकाले [[विक्रमादित्यः]]विक्रमादित्यस्य]] अधिकारसमयः सुवर्णयुगः इति प्रसिद्धः अस्ति । शूरः युद्धोत्सही, [[विक्रमादित्यः]] साम्राज्ये शान्ति स्थापकः च आसीत् । अस्य समये राज्ये उत्तमास्थितिः आसीत् । प्रसिद्धः कविः बिल्हणः [[विक्रमाङ्कदेवचरितम्]] इति काव्यं लिखितवान् । [[विज्ञोनश्वरः]] [[मिताक्षरग्रन्थम्]] इति कृतिं रचितवान् । एतौ ग्रन्थौ [[कन्नडभाषा|कन्नडसाहित्यै]] अतीव अमूल्यै स्तः। [[विक्रमादित्यः]] विक्रमपुरम् इति एकम् नूतनम् नगरं निर्मितवान् । षष्टः विक्रमादित्यः सा.श.११२७ तमे वर्षे दिवं गतः अभवत् । अनन्तरं तस्य पुत्रः तृतीयः सोमेश्वरः अधिकारं गृहीतवान् । एषः स्वयम् सहित्यासक्तः अभिमानीलेखकः आप्यासीत् [[मानसोल्लासः]] इति ग्रन्थः एतेन लिखितः अस्ति । अस्य ग्रन्थस्य अभिलाषितार्थचिन्तामणिः इत्यपि नामास्ति । अत्र ग्रन्थे न्यायशास्त्रवैद्यशास सङ्गीत चित्रकला श्वशास्त्राणाम् विषयाः सम्यक् निरुपिताः सन्ति । अस्य प्रशासनकाले चोळचाळुक्यवैरं पुनः आरब्धम् अभवत् । युद्धेषु चोळराजानः वेङ्गिप्रदेशम् आक्रान्तवन्तः । [[होय्सळवंशः|होय्सलराजः]] [[विष्णुवर्धनः]] स्वतन्त्रतया प्रशासनम् आरब्धवान् । [[तृतीयसोमेश्वरः]] स्वस्य राज्यसंरक्षणार्थं निर्लक्षितवान् आसीत् । अस्य सर्वज्ञचक्रवर्ती इत्यपि उपाधिः आसीत् ।
 
==साम्राज्यपुनरारम्भः==
तृतीयसोमेश्वरस्य पुत्रः द्वितीयः जगदेकमल्लः प्रशासकः अभवत् । एतत्समये एव कल्याणीचालुक्यानां साम्राज्यस्य पतनस्यारम्भः अभवत् । वारङ्गलप्रदेशे काकतीयाः वेङ्गिप्रदेशे चालुक्याः स्वतन्त्राः इति उदघोषयन् । [[गोवा]]प्रदेशे हान्गलप्रदेशे [[कदम्बवंशः|कदम्बाः]] च चालुक्यानां परमाधिकारं धिक्कृतवन्तः । राजानः अस्मर्थाः अभवन् । अधीनराजानः प्रबलाः अभवन् । [[विर्क्रमादित्यः|विक्रमादित्यस्य]] समये कलचूर्यवंशीयाः वैवाहिकसम्बन्धं संवर्धितवन्तः आसन् । किन्तु सा.श.११५६ वर्षसमये पुनः प्रबलाः अभवन् । सा.श.११५६ वर्षसमये कलचूर्यराजः बिण्णलः तृतीयतैलपराजस्य अधीनतां त्यक्त्वा स्वयम् चालुक्य सिंहासनम् अधिरूढवान् । सततम् २८ वर्षाणि प्रशासनं कृत्वा चतुर्थसोमेश्वरं सा.श.२२८४ तमे वर्षे पुनः पराजितवान् । सा.श.२२८९ तमे वर्षे देवगिरिप्रदेशीयाः सेवुणराजाः दोरसमुद्रस्य च [[होय्सळवंशः|होय्सळराजाः]] च प्रबलाः अभवान् । अतः स्वाभावतः एव द्वादशशतकस्योत्तरे भागे कल्याणिचालुक्यानां साम्राज्यस्य पतनमभवत् ।
 
==योगदानम्==
प्रायशः सार्धैकशतवर्षपर्यन्तं प्रशासनं कृत्वा कल्याणिचालुक्याः [[कर्णाटकम्|कर्णाटकस्य]] सर्वतोमुखाभिवृद्धये कार्ये रताः अभवन् । पूर्वं ये राजानः [[कर्णाटकम्|कर्णाटके]] साम्राज्यं स्थापितवन्तः तस्य च संरक्षणं कृतवन्तः । सामान्यजनानां व्यावहारिकी भाषा [[कन्नडभाषा ]] एवासीत् । [[कन्नडाभाषा]]यामेव शिलाभिलेखान् निर्मितवन्तः । अनेक देवालयानां निर्माणम् कारितवन्तः । कन्नडकाला संस्कृतिः साहित्यम् इत्यादीनां पोषकाः कल्याणिचालुक्याः चोळराजानाम् आक्रमणानि विरुद्ध्य कर्णाटकसाम्राज्यम् रक्षितवन्तः । एतेषां समये व्यापारव्यवहारेषु च अभिवृद्धिः अभवत् । अनेकाः वणिज्यसङ्घाः स्थापिताः । ऐहोळे इति प्रदेशे एनूर्वरु इति वाणिज्यस्य सङ्घस्य उत्तमः परिणामः सर्वगोचरः अभवत् । [[गदगमण्डलम्|गदगप्रदेशे]] बेळ्ळिगांवप्रदेशेषु शिक्षाकेन्द्राणि अस्मिन् काले प्रवर्धमानानि अभवन् । चालुक्यराजाः कलासंस्कृतिनृत्यादीनां प्रोत्साहनम् अकुर्वन् । सार्धेकशतककाले प्रशासने [[कर्णाटकस्य इतिहासः|कर्णाटकेतिहासे]] विशिष्टकार्याणि कृत्वा नूतनाध्यायकर्तारः अभवन् ।
 
* द्वितीयः तैलपः (क्रि.श. ९७३-९९७)
"https://sa.wikipedia.org/wiki/चालुक्यवंशः" इत्यस्माद् प्रतिप्राप्तम्