"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Robot: Modifying la:Swami Vivekananda→la:Swami Vivekenanda |
No edit summary |
||
पङ्क्तिः २३:
| footnotes=
}}
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे
सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।"
|