"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (रोबॉट: pa:ਉੜੀਸਾ की जगह pa:ਓੜੀਸਾ जोड़ रहा है
(लघु) updating title
पङ्क्तिः १:
[[चित्रम्:Orissa in India (disputed hatched).svg|thumb|]]
ओऱीस्साराज्यं'''ओडिशाराज्यं''' ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) भारतस्य आग्नेयतीरे विद्यते । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।<br />
ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । <br />
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्