"उडुपी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (रोबॉट: ru:Храм Кришны в Удупи की जगह ru:Храм Кришны в Удипи जोड़ रहा है
No edit summary
पङ्क्तिः २:
कृतयुगे परशुरामः २२ वारम् प्रदक्षिणां कृत्वा क्षत्रियाणां संहारं कृतवान् । सर्वां भूमिं ब्राह्मणेभ्यः दत्तवान् । अनन्तरं दत्ते स्थले स्वयं वासकरणम् अनुचितम् इति मत्वा स्वशक्त्या समुद्रम् एव दूरे अपसार्य नवीनं क्षेत्रम् निर्मितवान् । एतत् [[परशुरामक्षेत्रम्]] इति ख्यातमस्ति । अनन्तरम् एतत् क्षेत्र रामभोजस्य वशे कृतवान् ।[[File:Geetha Mandir Udupi.JPG|left|300px|thumb|'''गीतामन्दिरम्''']]
रामभोजः [[अश्वमेधयाग]]समये परशुरामम् आहूय रजतपीठासने उपवेशनाय व्यवस्थां कृतवान् । यागानन्तरम् तत्पीठम् पातालमगच्छत् । तस्मिनस्थले शिलालिङ्गः आविर्भूतः तत्र परशुरामस्यापि सान्निध्यम् आस्ति । एतस्य अनन्तासनः अथवा अनन्तेश्वरः इति कथयन्ति । अनन्तासनः एव परशुरामः। एषः देवः एव शिवबेळ्ळिनगरस्य मुख्यप्राणभूतः इव आसीत् ।
[[श्रीमन्मध्वाचार्यःमध्वाचार्यः]] अस्मिन् देवालये एव् पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलतिस्म (अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।
क्रिस्ताब्दे १२९७ तमे वर्षे हेविळम्बिसंवत्सरस्य माघशुद्धतृतीयायां मध्वाचार्याः श्रीकृष्णस्य सुन्दरप्रतिमाम् आनीय पूर्वाभिमुखं प्रतिष्ठापितवन्तः । [[कनकदासः|कनकदासाय]] दर्शनं दातुं श्रीकृष्णः स्वयं पाश्चिमाभीमुखी भूत्वा रन्ध्रदारा दर्शनम् दत्तवान् । तस्य स्थानस्य [[”’कनकनकिण्डी”’]] इति नाम अभवत् । अष्टमठानां यतयः श्रीकृष्णस्य पूजादिकं मासद्वयं यावत् कुर्वन्ति स्म। श्रीवादिराजमुनीनां काले मासद्वयस्यापेक्षया वर्षद्वयस्य अवधिः उत्तमः इति निश्चयः अभवत्। अस्य पूजा-कार्यपरिवर्तनस्य [[‘पर्यायमहोत्सवः’]] इति वद्न्ति । एषः पर्यायमहोत्सवः वर्षद्वये एकवारं जनवरीमासस्य तृतीये सप्ताहे प्रचलति ।
उडुपिनगरे श्रीकृष्णदेवालयः श्रीमदनन्तेश्वदेवालयः श्री चन्द्रमौळीश्वरदेवालयः गीताभवनम् इत्यादि दर्शनीयानि स्थलानि सन्ति । उडुपीनगरे सदा उत्सवाः भवन्ति । पर्यायोत्सवः श्रीकृष्णजन्माष्टमी लक्षदीपोत्सवः मकरसङ्कमणं विशेषोत्सवाः सन्ति ।
"https://sa.wikipedia.org/wiki/उडुपी" इत्यस्माद् प्रतिप्राप्तम्