"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 12 interwiki links, now provided by Wikidata on d:q1328292 (translate me)
पङ्क्तिः ४:
अष्टादशसु पुराणेषु अन्यतमं वर्तते '''विष्णुपुराणम्''' । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते । क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-[[प्रह्लादः|प्रह्लाद]]कथा, [[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, [[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, [[संस्काराः|संस्कारा]]णां, [[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, [[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । [[कृष्णः|कृष्ण]]कथा विवृता अस्ति । इदं पुराणरत्नम् इति प्रसिद्धम् । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति । अत्र निरूपितः [[मौर्यवंशः|मौर्येतिहासः]] विश्वासयोग्यः इति विन्सेण्ट् स्मित् स्व लेखे उल्लिखितवान् अस्ति ।
==भाषाशैली==
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । [[आर्षप्रयोगाः]] अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । [[ध्रुवः|ध्रुवचरित्रं]], [[प्रह्लादः|प्रह्लाद]]चरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते ।अत्र सर्वाणि धार्मिकप्रक्रियविशेषाः नातिविस्तृततया निरूपितमस्ति।किन्तु श्राद्धप्रक्रियायाः विस्तृतनिरूपणेन तस्य आवश्यकता ज्ञायते। [[श्रीकृष्णः|श्रीकृष्ण]]चरित्रम् अपि मनोरमं विद्यते ।
 
==विषयविभागः==
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्