"गङ्गानदी" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३०:
एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा।
 
एकदा महाराजः [[सगरः]] अश्वमेधयज्ञं कृतवान्। तस्य षष्टिसहस्रपुत्राः आसन्। अश्वः मत्सरेण इन्द्रेण बद्धः। सगरः अश्वं प्रतिप्राप्तुं स्वपुत्रान् प्रेषितवान्। ते अश्वम् कपिलर्षेः आश्रमे अपश्यन्। कपिलमहर्षिः एव चोरः इति मत्वा ते तम् अबाधन्त। क्रुद्धः ऋषिः स्वदृष्टयास्वदृष्ट्या एव तान् भस्मसात् अकरोत्। तेषाम् अन्तिमसंस्कारः न कृतः । अत एव ते स्वर्गम् न प्राप्नुवन्। सगरस्य वंश्यः भागीरथः स्वपूर्वजानाम् शान्तये गङ्गाजलम् ऐच्छत्। सः तीव्रेण तपसा गङ्गां भूलोकं प्रति आनायितवान्।
शिवः तां गङ्गां स्वजटायां धृतवान्। गङ्गा पापेभ्यः सर्वान् उद्धरति|
 
==गङ्गायाः प्रकृतस्थितिः==
भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र पृकृतिं पञ्जमहाभूतानि इति कथयामः। ये अमाकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं [[वायुः]] [[अग्निः]] इत्यादयः अमान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकालत् अस्माकं देशे पवित्रभावनयापूज्यमान एषा नदी इदानीं प्रदूषिता अस्ति ।
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्