"हळेबीडु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
इदानीं राजधान्यां होय्सळेश्वरदेवालयः शान्तलेश्वरदेवालयः च स्तः । द्वयोः देवालययोः सङ्गमस्थानं नक्षत्राकारके पञ्चपादपरिमितोन्नते आधारप्राङ्गणे अस्ति । देवालयौ पूर्वाभिमुखौ । पुर्वदिशि द्वारद्वयम् । उत्तरे दक्षिणे च एकैकम् द्वारमस्ति । मध्ये भवनमस्ति नवरङ्गादन्तः गर्भगृहे होय्सळेश्वरशान्तलेश्वरयोः लिङ्गे स्तः । नवरङ्गे सुन्दरशिल्पानि सन्ति ।
उपरितन शिल्पाच्छादने भुवनेश्वरीचित्राणि सन्ति । स्तम्भेषु भित्तिषु शिल्पानि सन्ति । प्रशान्तं मन्दिरम् अस्ति एतत् । अत्र शिवलिङ्गयोः दर्शनेनैव हि मनसः सन्तोषः भवति । पुरतः नन्दीश्वरौ विराजेते । विशाले उन्नते सुन्दरे मण्डपे नन्दीश्वरौ स्तः ।
[[Image:Halebidu Lakshminarayana.jpg|[ल्क्ष्मीनारायणयोः विग्रहः|thumb|100px|right]]
 
अत्र देवालयस्य बहिर्भागे भित्तिषु अनेकस्तराः सन्ति । अष्टपङ्क्तिषु विविधानि शिल्पानि सन्ति । अनेकानि सूक्ष्मसंवेदिचित्राणि अपूर्वाणि शिलासु रूपितानि सन्ति । चित्रपट्टिकासु सिंहपङ्किः गजपङ्क्तिः, लताविन्यासाः, उष्ट्रानां पाड्क्तिः, अश्वानां पाङ्क्तिः , लताः च सन्ति ।
 
पङ्क्तिः १८:
नन्दीमण्डपे अपि अतीव सुन्दरे स्तः । एकः मण्डपः विशालः अस्ति तत्र दशपादपरिमितोन्नतः नन्दीविग्रहः अस्ति । अन्यस्मिन् मण्डपे त्रयोदशपादपरिमितोन्नतः नन्दिविग्रहः अस्ति । तृतीयः देवालयः केदारेश्वरदेवालयः अपि दुःस्थितौ अस्ति । तत्र अष्टशतवर्षपूर्वं निर्मितं दोरसमुद्रतटाकं प्रमुखाकर्षकं स्थानमस्ति । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।
 
 
[[Image:Halebidu Lakshminarayana.jpg|[ल्क्ष्मीनारायणयोः विग्रहः|thumb|100px|right]]
सर्वम् इदानीं प्राच्यवस्तुसंशोधनविभागस्य वशे अस्ति । [[बेलूरु]]तः समीपे एव एतत् क्षेत्रमस्ति ।
 
"https://sa.wikipedia.org/wiki/हळेबीडु" इत्यस्माद् प्रतिप्राप्तम्