"सत्यव्रतशास्त्री" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Shastri-italy.jpg|thumb|सत्यव्रतशास्त्री]]
==[[ज्ञानपीठपुरस्कारः]] प्रा. सत्यव्रतशास्त्रिणे==
वैदुष्यगुणं प्रख्यापयन् वल्लभदेव: स्वीये ‘सुभाषितावलि’नामके ग्रन्थे न्यगादीत् -
:विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
:स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ इति ।
एतादृश: एव अस्ति विद्वत्तल्लज: संस्कृतसाहित्यविमर्शतत्पर: प्रा सत्यव्रतशास्त्रिवर्य:( Satyavrata Shastri) , यो हि ज्ञानपीठपुरस्कारेण सभाजित: अस्ति ।
तेन सार्धं साक्षात्सम्भाषणार्थम् अहं श्रीसुधीष्टकुमार: च तदीयम् आवासं प्रति यातौ । तेन सार्धं सम्पन्नस्य साक्षात्सम्भाषणस्य केचन अंशा: अत्र उपस्थाप्यन्ते -
'''प्रश्न:''' - अनेकै: राष्ट्रियै: अन्ताराष्ट्रियै: च पुरस्कारै: सभाजित: तत्रभवान् साम्प्रतं किम् अनुभवति - ‘ज्ञानपीठपुरस्कारावाप्ते: अनन्तरम् ?
 
श्रीमान् '''सत्यव्रतशास्त्री''' (Satyavrata Shastri) महोदयः ‍अद्यतनसंस्कृतभाषासाहित्ये प्रसिद्धः कविः वैयाकरणश्च। "महामहोपाध्याय" "विद्यावाचस्पति" इत्याद्युपाधिभिः मण्डितेनानेन महाभागेन श्रीरामकीर्तिमहाकाव्यम् श्रीबोधिसत्त्वचरितम् श्रीगुरुगोविन्दसिंहचरितम् इन्दिरागान्धीचरितम् थायिदेशविलासम् इत्यादयः कृतयः प्रणीताः। अनेन प्रकटितास्वितरासु कृतिषु सुभाषितसाहस्री नामकं सङ्कलनं वैदिकव्याकरणम् नामकं भाषान्तरीकरणं च वर्तेते। भारतदेशे भाषासेवायै दीयमाना उत्तमोपाधिः "ज्ञानपीठपुरस्कारः" संस्कृतभाषाक्षेत्रे ऐदम्प्राथम्येन अनेन महाभागेन एव प्राप्तम् । 'श्रीगुरुगोविन्दसिंहचरितम्' काव्याय अनेन साहित्याकादमीपुरस्कारश्च गृहीतः। श्रीमता सत्यव्रतशास्त्रिणेदानीं नवदिल्ल्यां जवहरलाल्-विश्वविद्यालये गौरवाचार्यपदव्यलङ्कृता।
'''उत्तरम्''' - किं कथयामि ? मह्यम् अस्य पुरस्कारस्य उपायनं यदस्ति, तत् वाग्देव्या: सरस्वत्या: सम्मान: । तदपि अनुभवामि यत् साहित्यसाधनाया: ऐहिकं राष्ट्रस्य सर्वोत्तमं साहित्यसम्मानमेनम् अवाप्य अतितरां प्रसीदति मम अन्तरात्मा । यथा ‘शाङर्तधरपद्धतौ’ कविना प्रोक्तम् -
:::अजरामरवत् प्राज्ञ: विद्यामर्थं च चिन्तयेत् ।
:::गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
:::::::- शाङगधरपद्धति: - 66
अहं तु भगवत्या: शारदाया: समाराधनतत्पर: । साम्प्रतम् अपि अनेकविधं साहित्यसंरचनसमीक्षात्मकं कार्यं योजनारूपेण करोमि ।
विगते शताब्दे त्रिंशत्तमे वर्षे (1930) सप्टम्बरमासस्य ऊनत्रिंशत्तमे दिनाङ्के अविभाजितभारतस्य लाहौरनगरे प्राप्तजन्मा अहं स्वनामधन्यस्य संस्कृतविदुष: प्रा चारुदेवशास्त्रिण: आत्मज: अस्मि । मम आरम्भिकी शिक्षा पितृचरणयो: एव सम्पन्ना । जन्मान्तरसंस्कारसम्पन्नोऽहं स्नातकोत्तरपरीक्षां यावत् सर्वदैव कक्षासु अग्रणीस्थानं प्राप्तवान् । बनारसहिन्दुविश्वविद्यालयत: पी.एच्.डी. इत्युपाधिम् अवाप्य मया दिल्लीविश्वविद्यालये अध्यापनम् आरब्धम् ।
 
==प्राप्ताः प्रशस्तयः==
'''प्रश्न:''' - इदं कथ्यते यत् भवान् प्राचीनार्वाचीनपद्धत्यो: समन्वयस्वरूपं भजते इति ...
=अन्ताराष्ट्रियाः=
==दृश्यताम्==
[[सत्यव्रतशास्त्रिणः सन्दर्शनम्]]
 
[[वर्गः:संस्कृतकवयः]]
'''उत्तरम्''' - एवम् । संस्कृतस्य पारम्परिकरीत्या अध्ययनं मया पितृचरणकमलयो: विहितम् । युगपदेव, मया विद्यालयीयमहाविद्यालयीयविश्वविद्यालयीयरीत्या अपि अधीतम् । वाराणस्यां मया विविधविदुषां सन्निधौ विविधानि शास्त्राणि अपि अधीतानि ।
 
'''प्रश्न:''' - अध्यापनावसरे भवान् विविधपदानां दायित्वनिर्वहणपुरस्सरम् अनेकविधां काव्यरचनां व्यधात् यत् तत् केन प्रकारेण शक्यम् अजायत ?
'''उत्तरम्''' - इयं तु काचित् परमेश्वरस्य अहैतुकी अनुकम्पा । भवन्तौ अवगच्छत: यत् कवित्वं दुर्लभं लोके । तथापि सततं भारतीयवैदिकवाङ्मयानुशीलननिरत: अहं सर्वदैव अन्वभवं यत् सरस्वत्या: समाराधनया परिनिष्ठितभावेन समर्पणपुरस्सरं च कश्चन जन: नूनं कवयितुं अर्हति इति ।
अद्यत्वे अहं ‘डायरी’ (Diary) इति संस्कृतगद्यलेखने व्यापृत: अस्मि । अस्य ग्रन्थस्य नाम अस्ति - ‘दिने दिने याति मदीयं जीवितम्’ । ग्रन्थेऽस्मिन् मया बाल्यकालस्य अविभक्तभारतस्य भारतविभाजनस्य च संस्मरणानि सङ्ग्रथितानि । युगपदेव ‘विश्वमहाकाव्यम्’ इति रचनायां स्पेन-इटली-रोमानियादिदेशानां प्रतिनिधिभूतानां मुख्यानां कवितानां संस्कृतभाषिक: सहज: प्रवाहमय: च अनुवादोऽपि विधीयते ।
दिल्लीविश्वविद्यालये अध्यापनावधौ कलासङ्कायस्य प्रमुख:, प्राध्यापक:, विभागप्रमुख: च सन् दायित्वं निरुह्य श्री जगन्नाथसंस्कृतविश्वविद्यालयस्य कुलपतिदायित्वमपि निरवहम् । तत्रान्तरे थाईलैण्डदेशे अभ्यागतप्राचार्यरूपेण अध्यापयन् श्रीरामकीर्तिमहाकाव्यम् व्यरचयम् । तत: पूर्वम् ‘बृहत्तरं भारतम्’ ‘श्रीबोधिसत्त्वचरितम्’ ‘श्रीगु्रुगोविन्दसिंहचरितम्’ ‘शर्मण्यदेश: सुतरां विभाति’ ‘इन्दिरागान्धिचरितम्’ इत्याद्या: अनेकविधा: रचना: व्यरचयम् । एतत्सर्वं परमात्मन: अनुकम्पया मम च अनारतसाहित्यसाधनया च शक्यम् अजायत ।
 
'''प्रश्न:''' - देशे विदेशेषु यानि प्रमुखाणि पुरस्काराणि सन्ति प्रायेण तै: सर्वैरपि अत्रभवान् सभाजित: । इत: परमपि किं प्रियतरं स्यात् ?
 
'''उत्तरम्''' - पद्मश्री-साहित्याकादमीपुरस्कार-कालिदासपुरस्कारादय: राष्ट्रिया:, नेपाल-बेल्जियम-केनाडा-रोमानिया-थाईलैण्ड-इटली-इण्डोनेशियादि- देशीया: अन्ताराष्ट्रियाश्च आहत्य मया षष्टि: पुरस्कारा: अधिगता: । ज्ञानपीठपुरस्कारोऽयं एकषष्टिमित:, यो मया नातिचिरम् अधिगत: । यथा मया पूर्वं प्रोक्तं, एतत्तु वाग्देव्या: शारदाया: सम्मान:, वयं तु निमित्तमात्रभूता: स्म: ।
 
'''प्रश्न:''' - भवत: श्रीमुखात् श्रोतुम् इच्छाम: यत् संस्कृतस्य किं महत्त्वम् इति ।...
 
'''उत्तरम्''' - आजीवनं संस्कृतस्य अध्ययनेन अध्यापनेन च रहस्यमिदम् अवगतं यत् संस्कृतस्य प्रत्येकमपि शब्द: अर्थविशेषम् आवहति इति । ‘जलम्’, ‘सलिलम्’, ‘नीरम्’ इत्यादय: शब्दा: जलस्य पर्यायवाचिन: इत्यस्माभि: कथ्यते । परञ्च यथार्थरूपेण एतेषु शब्देषु पर्यायवाचित्वं नैव, किञ्चित् अर्थभेदोऽपि विद्यते । एवमेव धनम्, अर्थ:, वित्तम् इत्यादय: यथा सम्पदर्थ-द्योतका: तद्वत् द्रवतीति द्रव्यम् इति व्युत्पत्ते: आधारेण ‘द्रव्य’शब्दोऽपि धनवाचक: अस्ति । तस्यात्र अस्ति अर्थविशेष: । अस्माकं प्रादेशिकभाषासु अपि महान् शब्दराशि: संस्कृतमय: । अत एव संस्कृताध्ययनं मातृभाषया सार्धं नूनं विधेयम् ।
 
'''प्रश्न:''' - संस्कृतभारती संस्कृतस्य पुनरुत्थानकार्ये निरन्तरं रता वर्तते । तया सह सहस्राधिका: कार्यकर्तार: युक्ता: सन्त: कार्यं कुर्वन्ति । तेभ्य: भवत: सन्देश: क: ?
 
'''उत्तरम्''' - ये संस्कृताय समर्पितस्वान्ता: सन्ति ते अस्माभि: वर्धनीया: शुभाशीर्भि: । संस्कृतं समेधतां, वर्धताम् । यथा महाभाष्यकारेण उक्तम् - ‘ग्रामे ग्रामे काठकं कालापकं च श्रूयते’ इति, एवमेव ग्रामे ग्रामे संस्कृतस्य अध्ययनम् अध्यापनं च प्रसरतु । संस्कृतं प्रति भवतां या निष्ठा, या च प्रतिबद्धता, सा अनुदिनं समेधताम् इति श्री भगवच्चरणयो: प्रार्थना । यत: संस्कृतं जीवातुभूतम् अस्य देशस्य । संस्कृतेनैव संस्कृति: अपि सुरक्षिता । यदि भारतदेश: स्वर्गापवर्गस्य निमित्तभूत: तर्हि तत्र कारणं संस्कृतमेव । संस्कृतं प्रति जनानाम् उत्साह: कथं वर्धेत इत्यत्र भवन्त: आत्मानं व्यापारयन्ति इति सर्वथा भवन्त: अभिनन्दनार्हा:, वर्धापनार्हाश्च । अहं प्रत्येमि यत् भवतां सत्प्रयत्नै: संस्कृतस्य प्रचार: प्रसार: च सवर्र्त्र भविष्यति, पुनरपि संस्कृतभाषा लोकेन सर्वथा आत्मीयभूता इति स्वीकर्तुं शक्ष्यते इति । पुनरपि अत्र-भवतां हृदयेन अहम् अभिनन्दनं विदधामि । यादृशं कार्यं भवद्भि: क्रियते तत्तु अतीव प्रमोदावहम्, अस्माकं सर्वेषाम् उत्साहवर्धकं च ।
 
==आधारः==
'सम्भाषणसन्देशः' जनवरी २००९
:लेखकः - डा बलदेवानन्दसागरः, नवदेहली
 
[[वर्गः:आधुनिक-महाकाव्यरचयितारः]]
[[वर्गः:ज्ञानपीठप्रशस्तिभाजः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
 
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/सत्यव्रतशास्त्री" इत्यस्माद् प्रतिप्राप्तम्