"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
==इतिहासः==
===भारतीयजनसङ्घः(१९५१-१९८०)===
[[डा. श्यामाप्रसाद मुखर्जी]] १९५१ तमे वर्षे राष्ट्रवादं समर्थयन् भारतीयजनसङ्घम् अस्थापयत् । भारतीयजनसङ्घः राष्ट्रियकांग्रेसपक्षस्य तुष्टीकरणनीतेः विरोधप्रदर्शनम् अकरोत् । तथा राष्ट्रिय-एकता-अखंडता एवं सांस्कृतिकविषयेषु कांग्रेसपक्षस्य निन्दाम् अकरोत् । १९५३ तमे वर्षे कारागारे डा. श्यामाप्रसाद मुखर्जीमहोदयस्य अकालमृत्युः अभवत् । परवर्तीकाले पण्डितदीनदयाल-उपाध्यायस्य नेतृत्वे भारतीयजनसङ्घस्य आन्दोलनम् अग्रसरम् आसीत् । तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् सङ्घस्य पुनर्निर्माणम् अभवत्। पण्डितदीनदयाल-उपाध्यायः केषुचनां सक्षमकार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। [[अटलबिहारीवाजपेयी]] तथा लालकृष्णः आडवाणी[[लालकृष्णाडवाणी]] तेषु अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयाल-उपाध्यायस्य हननम् अभवत्। तस्य मरणस्य अनन्तरं [[अटलबिहारीवाजपेयी]] जनसङ्घस्य अध्यक्षः अभवत्।

*१९५२ तमे वर्षे प्रथमसाधारणनिर्वाचने जनसङ्घः त्रिषु एव क्षेत्रेषु विजीतवान्। परवर्तीदशवर्षेषु जनसङ्घस्य शक्तिः वर्धमाना आसीत्। १९६२ तमे वर्षे शक्तिशालि विपक्षरूपेण जनसङ्घस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसङ्घः कांग्रेसपक्षेण सह प्रतिस्पर्धाम् अकरोत्। सङ्घस्य मुख्यप्रचारविषयाः समनागरिकसंहिता, गोहत्यानिषेधः, जम्मू-कश्मीरसमस्या, हिन्दी भाषायाः प्रचारः इत्यादयः आसन् ।

*[[इन्दिरा गान्धी]]सर्वकारेण घोषिताऽपात्काले सङ्घकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। सङ्घस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसङ्घः कांग्रेसविरोधीपक्षजनतादलेन सहमैत्रीकुटः कृताऽसीत्। १९७७ तमे वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरारजी[[मोरार्जी देसाई]] तदानीं प्रधानमन्त्रीपदं प्राप्तवान्। [[अटलबिहारीवाजपेयी]] विदेशमन्त्री च अभूत्। परन्तु जनतादलसर्वकारस्य अधपतनं मोरारजीमोरार्जी देसाईमहोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।

===भारतीयजनतापक्षः(१९८०-)===
*जनतादलस्य कार्यकर्तारः ये जनसङ्घे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। [[अटलबिहारीवाजपेयी]] प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधः भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयीमहोदयेन सिख-हिन्दुजातयोर्मध्ये सौहार्दभावः वर्धितः आसीत्।

*१९८४ तमे वर्षे साधारणनिर्वाचने भा.ज.पा. आसनद्वयमेव अविजीत। भा.ज.पा रामजन्मभूमौ (अयोध्यायां) बाबरीमस्जिद् स्थले राममन्दिरनिर्माणम् इति विषयः हिन्दुजनानां सन्मुखे समुपास्थितम् अकरोत्। अस्मिन् विषये विश्वहिन्दूपरिषदः राष्ट्रीयस्वयंसेवकसङ्घयोः समर्थनं पूर्णतया भारतीयजनतापक्षेण लब्धम् आसीत् । लालकृष्णः आडवाणी[[लालकृष्णाडवाणी]] आभारतं यात्रां कृत्वा हिन्दुजनानां समर्थनमपि लब्धवान्।

* १९९२ तमे वर्षे ६ दिसम्बरमासे, बाबरीमस्जिद विद्ध्वंसः जातः। आभारतं परवर्तीसमये हिन्दु-मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं सहस्रा़धिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्वहिन्दूपरिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णः आडवाणी[[लालकृष्णाडवाणी]] तथा केचन भा.ज.पा. कार्यकर्तारः अपि कारागाराबद्धाः आसन्।
सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनम् अलभत्।

[[चित्रम्:Lal Krishna Advani 2008-12-4.jpg|Thumb|right|200px| लालकृष्णः आडवाणी ]]
*१९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.प. विजयं अलभत्। १९९५ तमे वर्षे नवम्बर् मासे भा.ज.पा-महाअधिवेशने लालकृष्णः आडवाणीमहोदयेन[[लालकृष्णाडवाणी]]महोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् [[अटलबिहारीवाजपेयी]] प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.प. विजयी अभूत्। [[अटलबिहारीवाजपेयी]] प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु संख्यागरिष्ठताऽभावात् १३ दिनानि अनन्तरम् एव तेषां सर्वकारस्य पतनम् अभवत्।

*१९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीकुटः (राष्ट्रियजनतान्त्रिकमैत्रीकुटः) अकरोत्। निर्वाचने मैत्रीकुटस्य विजयः अभूत्। पुनः [[अटलबिहारीवाजपेयी]] प्रधानमन्त्रीपदवीं लब्धवान् । परन्तु १९९९ तमे वर्षे मैत्रीकुटान्तर्वर्ती एकस्य पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य पतनम् अभवत्।

*१९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटं सम्पूर्णजनसमर्थनम् अलभत्। [[अटलबिहारीवाजपेयी]] प्रधानमन्त्री तृतीयवारम् अभवत् तथा च लालकृष्णः आडवाणी[[लालकृष्णाडवाणी]] उपप्रधानमन्त्री अभूत्। मैत्रीकुटः सर्वम् आहत्य ३०३ तथा भा.ज.प. १८३ स्थलेषु विजीता आसन्। इदनीम् अटलबिहारीवाजपेयी-नेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।

*२००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य अनपेक्षितपराजयः अभूत्।

*मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटकविधानसभा प्रथमवारं विजीतः।

पङ्क्तिः १३०:
===हिन्दुत्ववादः===
भारतीयजनतापक्षः हिन्दुत्ववादं पुर्णतया समर्थयति । नन्वत्र "हिन्दुत्व" नाम हिन्दुजातित्वम् इति न । विनायक-दामोदर-सावरकरमहोदयस्य विचारधारैव "हिन्दुत्ववादः" इति ख्यातः । अस्य वादानुसारेण सांस्कृतिक-आत्मीयतावादः(जातीयतावादः) एव हिन्दुत्ववादः । अयं वादः पाश्चात्यायनस्य (Westernisation) विरुद्धे भारतीयसभ्यता-ऐतिह्य-संस्कृतिं समर्थयति । विरोधीपक्षाः आरोपं कुर्वन्ति यत् - हिन्दुत्ववादः संख्यालघुजनविरोधीवादः इति । परन्तु समग्रभारतीयजनाः एकत्र सांस्कृतिक-आत्मीयतावादे (जातीयतावादे) अन्तर्भवन्ति । मुस्लिम्-क्रिस्तीयप्रभृतयः संख्यालघुजनाः अपि तत्रैव अन्तर्भवन्ति इति भारतीयजनतापक्षस्य मतम् ।

[[अटलबिहारीवाजपेयी]]-महोदयेन धर्मनिरपेक्षता विषये युरोपीयसिद्धन्तः न मनुते । भारतीयजनतापक्षः अस्मिन् विषये महात्मा गान्धीमहोदयस्य "सर्वधर्मसमभावः" इति वादं स्वीकरोति।

===एकात्मतावादः===
पङ्क्तिः १३९:
भारतीयजनतापक्षः "स्वदेशी"-भावं वर्धयति । पक्षोऽयं देशीय (भारतीय) शिल्पोद्योगः एवं स्वदेशीसामग्रीवितरण-विकासविषये चिन्तयति । यद्यपि आर्थिकक्षेत्रेषु वैदेशिकशिल्पविकासः एते नेच्छन्ति । तथापि अटलबिहारीवाजपेयीसर्वकारः स्वतन्त्रवाणिज्यिकनीतेः अनुसरणं कृतवान् ।

===रक्षणनीतिः===
भारतीयजनतापक्षः शक्तिशालिजातीयरक्षणनीतेः समर्थनं करोति । तन्निमित्तं भारतीयसेनायाः आधुनिकीकरणं तथा पारमाणविकरक्षणम् एते समर्थयन्ति । जम्मु-कश्मीरप्रदेशस्य पूर्णस्वाधीनतां तथा भारतीयसंविधाने विशेषराज्यरूपेण अनुमोदनम् इच्छन्ति । अटलबिहारीवाजपेयीसर्वकारः[[अटलबिहारीवाजपेयी]]सर्वकारः पोखराणे पारमाणविकपरीक्षणं १९९८ तमे वर्षे कृतवान् । अनुप्रवेशकारीणां (पाकिस्थानस्य) विरुद्धे "कर्गीलयुद्धम्" अपि जीतवान् ।

== विविधराज्येषु राष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए) ==
पङ्क्तिः १७०:
| १९८६-१९९१
| [[चित्रम्:Lkadvani.jpg|75px]]
| [[लालकृष्णाडवाणी]]
| [[लालकृष्णः अदवाणी]]
|प्रथमवारम्

पङ्क्तिः १८०:
| १९९३–१९९८
| [[चित्रम्:Lkadvani.jpg|75px]]
| [[लालकृष्णाडवाणी]]
| [[लालकृष्णः अदवाणी]]
| द्वितीयवारम्

पङ्क्तिः २०५:
| २००४–२००६
| [[चित्रम्:Lkadvani.jpg|75px]]
| [[लालकृष्णाडवाणी]]
| [[लालकृष्णः अदवाणी]]
| तृतीयवारम्

पङ्क्तिः २१५:
| २००९–२०१३
| [[चित्रम्:Nitin gadkari (1).jpg|75px ]]
| [[ नितीनगडकरी]]
| [[ नीतिन् गडकरी]]
| प्रथमवारम्

"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्