"महाभारतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३:
महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते -<br />
'''महत्वाद् भारवत्वाच्च महाभारतमुच्यते।'''
महाभारतं विरचय्य श्रीव्यासः ’शिष्येभ्यः कथम् अध्यापयामि’ इति यथा चिन्तामग्नः आसीत् तदा तस्य व्यथां ज्ञात्वा स्वयं लोकगुरुः भगवान् ब्रह्मा तस्य प्रीत्यर्थं लोकानां हितकाम्यया च तत्र आगच्छत्। यथाविधि तस्योपचारं कृत्वा स्वयं श्रीव्यासः स्वग्रन्थविषयेऽवदत् - ’भगवान् ! मया इदं परमपूज्यं काव्यं कृतम् । अस्मिन् काव्ये वेदरहस्यं साङ्गोपनिषदां विषयः च विस्तारेण वर्णितः । इतिहासाः - पुराणानि - भूतं -भव्यं - भविष्यञ्चभविष्यं, जरा-मृत्यु-भय-व्याधि-भावाभावः, चातुर्वर्ण्यविधानं वर्ण्यधर्माः, पृथिवी - चन्द्रः - सूर्यः - तारागणः ग्रहप्रमाणाः, सत्य-त्रेता-द्वापर-कलियुगाः, ऋग्-यजुस्-सामानि सर्वमपि वर्णितम्। तीर्थानां पुण्यक्षेत्राणां च कीर्तनं, नदी-वन-पर्वत-सागरादीनां वर्णनं, सर्वमपि प्रतिपादितं विद्यते अस्मिन् ग्रन्त्थे । परन्तु एतस्य ग्रन्थस्य कोऽपि लेखकः भुवि न विद्यते।
ब्रह्मा अपि प्रत्युत्तरे - 'अन्य कोऽपि अस्मात् श्रेष्ठतरं काव्यं लेखितुं न समर्थो भवति । लेखनार्थं श्रीगणेशं स्मर' इति उक्त्वा स्वधाम अगच्छत् । एवं महाभारतं श्रीव्यासेन प्रणीतं, श्रीगणेशेन लिखितम्।<br />
महाभारतस्य विविधविषयावगाहि - ज्ञानम्, अर्थगौरवं भावगाम्भीर्यं च प्रतिपादयितुं कतिपयानि सुभाषितानि उपस्थाप्यन्ते -
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्