"कूर्दनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
कूर्दनकला (Jumping Sport) विद्यमानक्रीडासु एकम् अङ्गं वर्तते ।
==ऐतिहासिकी पृष्ठभूमिः==
 
==ऐतिहासिकी पृष्ठभूमिः==
प्रत्येकं प्राणिनः स्वभावे धावनकूर्दने समानरुपेणैव तिष्ठतः । यो धावति स कूर्दते यश्च कूर्दते स धावति । यथा मानवः प्रारम्भे धावनं कृत्वाऽऽत्मानं रक्षतिस्म तथैव यथावसरं कूर्दनेनाप्यात्मनो रक्षां विधत्ते स्म । इदं कूर्दनं कदाचित् सामान्यं कदाचिच्चासामान्यमुच्चैः स्थानादधः पतनेन किं वा धावनस्य मध्ये समागतस्य गर्तस्य पाषाणखण्डस्यान्यस्य वा कस्यचनावरोधवस्तुन उल्लङ्घनायाद्रियत् । इदमुल्लङ्घनमुत्पलुत्याऽथवा लधुदीर्घकूर्दनेन कुर्वतां काऽपि व्यवस्था नासीद् । यदा कदा रक्षार्थं प्रयुज्यमानेयं क्रिया हस्तयोः पादयोः शरीरस्यान्येष्वङ्गेषु वाऽभिघातेन पीडामपि जनयति स्म । यदाऽस्यां क्रीडाचार्याणां दृष्टिर्गता तदा तैरस्या व्यवस्थापनाय प्रयतितम्, पद्धतीनां निर्धारणं कृतम्, प्रयोगाणां वैविध्येन च महत्त्वं वर्घितम् ।
प्रतियोगितापरम्परायां सर्वप्रथमं सन् १८७६ तमे वर्षेऽमेरिकन्-राष्ट्रियप्रतियोगितायां १७ फीट ४अ इंचमितं तथा १८८८ तमेशवीयवत्सरे २३ फीट ३ इंचमितं प्रलम्बकूर्दनं विधाय ‘एम० डब्यू० फोर्डः’ विश्वकीर्तिमानं स्थापितवान् । ततः परं सन् १८६६ तमे वर्षे ‘एलविन क्रेजिलिनः’ २४ फीटमितं, ‘पीं श्रो० कोनरः’ २४ ३/४ फीटमितं तथा ‘डीहर्ट हवई’श्च २६ फीटमितमुच्छलनं कृत्वा किर्तिमानं वर्धितवन्तः ।
"https://sa.wikipedia.org/wiki/कूर्दनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्