"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing hi,pt,pl,fr,ko,ru,es,uk,it,de,id,ml,cs,mr,ne,nl,sv (strongly connected to sa:पुलस्त्यस्मृतिः)
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
:स्मृतिग्रन्थेषु मनुस्मृतिः प्राचीनतमा भवति । महर्षिमनुद्वारा रचितमेष ग्रन्थः मानवधर्मं विवृणोति । एतस्मात् एतस्याः अन्यतमानि नामानि ’मनुसंहिता’ ’मानवधर्मशास्त्रम्’ ’मानवधर्मशास्त्रं’ आदयः अपि सन्ति । श्रुतिग्रन्थाः वेदाः । तान् अधिकृत्य रचिताः ग्रन्थाः स्मृतयः । तेषां विषयवस्तु वैयक्तिकी सामाजिका च व्यवस्था, कर्तव्याणि, व्यवहारनियमानि, निषेद्धव्यानि च अस्ति । एष एव धर्मोऽस्ति खलु । मनुः स्वयं वदति – “धर्मशास्त्रं तु वै स्मृतिः (२।१०)” । अन्यत्र सः वदति - “वेदोऽखिलो धर्ममूलम् (२।६)”, “धर्मज्ञिज्ञासमानां प्रमाणं परमं श्रुतिः (२।१३)” । अतो मनुस्मृतिः पूर्णतया वेदाधारितो विधिविधानात्मको ग्रन्थोऽस्ति । मानवसमाजस्य व्यवस्थिता परिकल्पना विश्वग्रन्थेषु अत्र प्रथमतया दृश्यते । तस्माद् मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता इति मान्यता अस्ति । मनुः स्वयं वदति यत् प्रथमतया संस्कृतिः भारतात् बहिः प्रसारिता –
स्मृतिग्रन्थः'''मनुस्मृतिः''' प्राचीनतमा भवति । मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता । तेन प्रणीता मनुसंहिता पृथिव्याः सर्वप्रथमं प्रमुखञ्च विधिशास्त्रमिति शास्त्रकारैः बहुमानपुस्सरं प्रमाणीकृतम् । मनोरपत्यं मानव इति व्युत्पत्तिगतात् अर्थात् अवगाम्यते । मानवानां सर्वेषां संस्कृतेः, धर्मस्य पुरुषार्थस्य च प्राणप्रतिष्ठाता महर्षिर्मनुरिति कथनं वस्तुतो यथार्थमेव प्रतिभाति । तत् प्रणीता संहिताऽपि पृथिव्याः सर्वमान्येति स्वीक्रियते । विदेशिभिः विद्वद्भिरपि मनुस्मृतेः प्राचीनता अङ्गीक्रियते ।
मनुः इति शब्दः ऋग्वेदेऽपि समुपलभ्यते ऋक् १/११४/२, १/८०/१६ तथा २/२३/१३ सूक्तानि द्रष्टव्यानि/ एवमेव ऋगवेदस्याष्टममण्डले २७-३१ सूक्तानां रचयिता मनुवैवस्वत एवास्तीति दरीदृश्यते । प्रोक्तञ्च-
:''विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ।
:''भगवाद्गीता ४ / १ ।:''
पृथिव्याः प्रायो विभिन्नदेशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षेः नाम उल्लिखितं दृश्यते । भारतात् बहिः प्रायः कतिपयानां देशानां विधिशास्त्रेषु मनुसंहितायाः केचनांशा अपि समुद्धृता दृश्यन्ते । आचारव्यवहारविधिनिषेधादीनां व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयाऽनुपमा चास्ति । मनुस्मृतौ एतस्मात् कारणात् लिखितमस्ति...
:'''एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।'''
:'''स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ 2|20 ||'''
:सभ्यतायाः मूलेऽस्ति सुदृढसमाजः । एतादृशः समाजः कथं भवेदित्येतस्य परिकल्पना मनुना प्रथमतया कृता । समाजव्यवस्थायां चत्वारः वर्णाः विहिताः – ज्ञानवर्धने ज्ञानरक्षणे रताः ब्राह्मणाः, राष्ट्ररक्षणे नियमस्थापने क्षत्रियाः, वाणिज्ये पशुपालने कृषिकार्ये वैश्याः, सेवाकार्ये शूद्राः ।
:समाजस्य मूले व्यक्तिरस्ति । वैयक्तिकां व्यवस्थां स एवं निर्दिशति – आयोः चत्वारः भागाः भवेयुः – ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, संन्यासाश्रमश्च । प्रतिवर्णस्य प्रत्याश्रमस्य च स धर्मस्य विधानं कृतवान् । मानवस्य चत्वारः लक्ष्याः सन्ति – धर्मोऽर्थः, काम, मोक्षश्च । तेषां स्वरूपं किं, तान् प्रापणाय किं किं कर्तव्यं, किं किं वर्जनीयम्, आपदि कः धर्मः – एतत् सर्वं तेन ग्रन्थे उपदिष्टम् । धर्मेण सम्बद्धः केचन अन्याः विषयाः अपि वर्णिताः, यथा – मूलप्रकृतया सृष्टेः सृजनक्रमः, गुरोः लक्षणानि, धूर्तस्य लक्षणानि, विवाहप्रकाराः इत्यादयः ।
 
==वैशिष्ट्यम्==
समाजे मनुस्मृतेः माहात्म्यस्य दृष्ट्या मनुसंहितामपि मानवधर्मसूत्रमिति कथनं नैव युक्तम् । यतो हि धर्मसूत्रस्य शैली सूत्रात्मिका, स्मृतेश्च रीतिः शलोकात्मिका भवति । स्मृतीनां विषयविवेचनं क्रमबद्धं शृङ्खलितञ्च । सूत्राणाञ्च विषयविन्यासो विपर्यस्तो दृश्यते । एक एको विषयो पौनः पुन्येन विचार्यते । अतः शैलीभेदेन स्मृतिसाहित्यसूत्रसाहित्ययोः मध्ये भेदो विद्यते एव । यद्यपि द्वयोः साहित्ययोः सृष्टिः (ख्री० पू० तृतीयशतकात् पञ्चमशतकमध्ये ) तथापि स्मृतिसाहित्यस्य प्राचीनता सूत्रसाहित्यस्य अर्वाचीनता च स्वीकार्या एवास्ति । किञ्च मानवधर्मसूत्रं मनुस्मृतिरूपेण कालान्तरेण परिणतं विषयसाम्यादिति केचन वदन्ति । किन्तु तन्न समीचीनम्, मानवधर्मसूत्रस्य अस्तित्वाभावात् । मनुस्मृतेः वैदिकस्मृतित्वेन प्रसिद्धेः वेदार्थानुमापकत्वेन वेदार्थोपनिबद्धत्वात् मनुस्मृतेः प्राधान्यं प्रत्यपादि । यथोक्तं बृहस्पतिना -
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्