"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
एवं भारतवर्षे बहुप्राचीनकालात् धर्मस्य निर्णयः मनुस्मृत्या अभवत् । परन्तु, मध्यकाले तस्मिन् बहवः प्रक्षेपाः अन्तर्गताः । शूद्रः-स्त्री-आदि-विषये अनेकाः निरादरभावगताः श्लोकाः, प्राचीनेभिः सम्मानभावपूर्णेभिः वेदानुकूलेभिः श्लोकेभिः सह, वर्तते । एतस्मात् सम्प्रति एतस्य ग्रन्थस्य महत्त्वं किञ्चित् न्यूनमस्ति ।
 
मनुस्मृतौ बहूनि प्रक्षेपाः सन्तीति कुल्लूकभट्टादिना भाष्यकारैः स्वीकृताः । बुह्लर, जौली, आदयः पाश्चात्य विद्वांसः च तस्मिन् दुष्टाः श्लोकाः सन्तीति निर्दिष्टवान् । एकोनविंशति-शताब्देः परार्द्धे आर्यसमाजस्य प्रवर्तकः [[स्वामी दयानन्दसरस्वती|स्वामिदयानन्दसरस्वतिः]] मनुस्मृतेः पुनरुद्धारं कृतवान् । सः प्रक्षेपणं निर्दिष्टवान्, परन्तु अन्येषां श्लोकानां धर्मविषये प्रामाणिकता उद्घोषितवान् । स्वस्य ग्रन्थेषु, वेदान् मनुस्मृतिं च अवलम्ब्य, सः धर्मं उपदिष्टवान् । विंशति-शताब्दौ यत्र अम्बेडकरस्तस्याः शूद्रविरोधित्वं निन्दितवान्, अन्यत्र ए०सी० भक्तिवेदान्तस्वामी, एस० राधाकृष्णन्, पाण्डुरङ्ग शास्त्री अठावले, ऐनी बिसैन्ट, फ्राइड्रिक् नीश आदि महानुभावाः तस्याः भूरि प्रशंसां कृतवान् ।
 
अद्यापि पठनपाठने, मनुस्मृतेः प्राधान्यं वर्तते । भारतस्य संविधानं, ’हिन्दू कोड बिल’ च एतामाश्रिते स्तः । सामाजिक्यां, राजनैतिक्यां, नैयायिकायां च व्यवस्थायां मनोः प्रभावो महत्त्वं च वर्तते ।
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्