"अरिस्टाटल्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) clean up using AWB |
||
पङ्क्तिः ९:
|death_date =322 BC (age 61 or 62)<br />[[युबोय]]
|school_tradition = [[पेरिपेटेटिक्-सम्प्रदायः]]<br />[[अरिस्टाटल्-मतम्]]
|main_interests = [[भौतशास्त्रम्|भौतविज्ञानम्]], [[तत्वज्ञानम्]], [[काव्यम्]],
|notable_ideas = [[Golden mean (philosophy)|Golden mean]], [[Reason]], [[Logic]], [[Syllogism]], Passion
|influences = [[Parmenides]], [[Socrates]], [[Plato]], [[Heraclitus]], [[Democritus]]
|influenced = Virtually all [[Western philosophy]] that came after his works; [[Alexander the Great]], [[Avicenna]], [[Averroes]], [[Maimonides]], [[Albertus Magnus]], [[Thomas Aquinas]], [[Duns Scotus]], [[Ptolemy]], [[Nicolaus Copernicus|Copernicus]], [[Galileo]], and most of [[Islamic philosophy]], [[Jewish philosophy]], [[Christian philosophy]],
}}
(कालः – क्रि.पू. ३८४ तः क्रि.पू.३२२)
अयम् अरिस्टाटल् (ARISTOTLE) प्रपञ्चस्य प्रथमः जीवविज्ञानी अस्ति । आधुनिकानाम् इतिहासकाराणां
[[चित्रम्:Sanzio 01 Plato Aristotle.jpg|thumb|150px|left|अरिस्टाटल् गुरुणा प्लेटोवर्येण सह । दक्षिणभागे विद्यमानः अरिस्टाटल्, वामभागे विद्यमानः च प्लेटो ।
क्रि.पू.३६७तमे वर्षे अरिस्टाटलस्य पिता दिवङ्गतः । तदा अरिस्टाटल् १७ वर्षीयः आसीत् । तदा सः अथेन्स्-नगरं गत्वा सुप्रसिद्धस्य तत्त्वशास्त्रज्ञस्य [[
अरिस्टाटल्स्य ३७तमे वयसि गुरुः प्लेटो अपि कालवशः जातः । तदनन्तरम् अरिस्टाटल् १२ वर्षाणि यावत् ग्रीस्-देशे, एषियामैनर्-देशेषु सञ्चरन्, पाठयन्, प्रकृतिवीक्षणं कुर्वन्, लिखन् च कालम् अयापयत् । सर्वदा तस्य् हस्ते किमपि एकं पुस्तकं भवति स्म एव । यत् यत् पश्यति तत् सर्वम् अपि टिप्पणिपुस्तके उल्लिखति स्म अरिस्टाटल् । जीविनां लोके स्वेन दृष्टं सर्वम् उल्लिखन् १८० प्रभेदान् मीनान्, शुक्तिमतान् प्राणीन्, जले वसतः जन्तून् च संशोध्य, नामोल्लेखं कृत्वा विवृतवान् आसीत् । तदनन्तरं भूमौ वसतः प्राणीन् अपि तत्र पट्टिकायां योजितवान् । तदनन्तरं तेषां सर्वेषां प्राणिनां दैहिकलक्षणानाम् अनुगुणं वर्गीकरणम् अपि अकरोत् । तस्मात् एव कारणात् अरिस्टाटल् जगति एव प्रथमः जीवविज्ञानि इति प्रसिद्धिम् अपि प्राप्नोत् ।
केषाञ्चन प्राणिनां कशेरुकं भवति ते [[कशेरुकाः]] । केषाञ्चन प्राणिनां कशेरुकं न भवति ते [[अकशेरुकाः]] । केचन प्राणिनः अण्डरूपेण जन्म प्राप्नुवन्ति । अन्ये केचन प्राणिनः मातृवत् रूपं प्राप्य जन्म प्राप्नुवन्ति । केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते [[शीतरक्तप्राणिनः]] । केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च [[उष्णरक्तप्राणिनः]] । इत्येतान् अंशान् संशोध्य उल्लिखितवान् । अरिस्टाटल्स्य अपेक्षानुगुणं सस्यानं प्राणिनां च प्रभेदानां सङ्ग्रहणाय तस्य शिष्यः अलेक्साण्डरः व्याधान्, वाटिकारक्षकान्, धीवरान् च असूचयत् । जगति विद्यमानस्य सर्वस्य अपि देशस्य प्राणिवैविध्यं, सस्यवैविध्यं च सङ्ग्रहीतुं ग्रीस्-देशे, एषियाखण्डे च सहस्राधिकाः नियुक्ताः आसन् अलेक्साण्डरेण । तैः सङ्गृहीतं सर्वं प्राप्य अध्ययनं संशोधनं च कृत्वा अरिस्टाटल्
जगतः ज्ञानभण्डारं प्रवेष्टुम् अरिस्टाटल् समीपे विद्यमाना कुञ्चिका नाम तर्कः एव । वस्तुस्थितिः तेन अरिस्टाटलेन प्राप्तस्य ज्ञानस्य आधारः आसीत् । परितः विद्यमानं सर्वम् अपि सूक्ष्मेक्षिकया परिशील्य, वास्तविकैः अंशैः सिद्धान्तं निरूपयतः तस्य वैज्ञानिकः मनोधर्मः आसीत् । अयम् अरिस्टाटल् न केवलं शिष्यान् बोधयति स्म अपि तु सामान्यानां जनानाम् अवगमनाय् उपन्यासम् अपि करोति स्म । अरिस्टाटल् ४०० पुस्तकानि लिखितवान् इति ज्ञायते । तस्य पुस्तकानि ४ शतकस्य ग्रीक्विद्वत्ततायाः विश्वकोषः इति वक्तुं शक्यते । सः खगोलविज्ञानविषये, भौतशास्त्रे, [[काव्यम्|काव्ये]], जीवशास्त्रे, प्राणिशास्त्रे, [[राज्यशास्त्रम्|राज्यशास्त्रे]], [[तर्कशास्त्रम्|तर्कशास्त्रे]], [[नीतिशास्त्रम्|नीतिशास्त्रे]], वाक्पटुत्वविषये च ग्रन्थान् अलिखत् । २०००वर्षेभ्यः पूर्वं तेन कृतानि संशोधनानि अवलोकनानि च अद्यतनीयाः विज्ञानिनः अपि अङ्गीकुर्वन्ति ।
क्रि.पू.३२३तमे वर्षे चक्रवर्ती अलेक्साण्डरः
[[वर्गः:गणितज्ञाः]]
|