"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १२:
|honors= द्वैतसिद्धन्तप्रतिष्ठापनाचर्यः ।
|Literary works = गीताभाष्यम् । गीतातात्पर्यम् । ब्रह्मसूत्रभाष्यम् । अनुव्याख्यानम् । न्यायविवरणम् । अणुभाष्यम् ।
|quote=
|footnotes=
}}
Line १९ ⟶ १८:
 
'''मध्वाचार्यः''' ({{lang-kn|ಮಧ್ವಾಚಾರ್ಯ}}, {{lang-en|Madhvacharya}}) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं वर्णितवान् ।
भारतस्य दर्शनशास्त्रेषु ’द्वैतं’'द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । 'अयं वायुदॆवस्य अवतारः, अपि च अयं हनुमत्-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप’प्राप' इति ख्यातिः ।
 
आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम [[उडुपी]] इत्यस्य नगरस्य समीपे अस्ति । मध्वाचार्यः मध्यगेहभट्ट-वेदवती इति दम्पत्यो: पुत्र:। पितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्यात् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञः वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं च दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति अपरं नाम दत्तवान् । किन्तु आचार्यः मध्वस्तु श्रुतिप्रतिपादितेन 'मध्व' (यदी मनु प्रदिवो मध्व आदवे) इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम ' तत्त्ववादः ' इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध:।
 
==इतिहासः==
[[सुमध्वविजयः]] इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं वैशिष्ट्यं च वर्णयति । ’अयं'अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य अवतारः’ इति प्रख्यातः । एतस्य पिता नडिल्लाय (मध्यगेह) नारायण भट्टः । माता वेदवती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् मानवः एकस्य दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच ’लोके'लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति’ इति । तदनुसारेण क्रि.श.१२३८तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेवः इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं प्रकटयति । शास्त्रसंरक्षणार्थं आगतः सः एकादशे वयसि अच्युतप्रज्ञात् संन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्नोति ।
 
१३तमे शतमाने प्रचलितायां बृहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्वा सर्वज्ञसूरिः इति प्रथां प्राप्नोति । स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य वैश्ष्ट्यम् । एवं वेदस्य अर्थत्रयं, महाभारतस्य दशार्थं, विष्णुसहस्रनामस्य शतार्थं प्रदर्श्य एषः केरळे 'विश्वं' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादयति इति तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।
Line ५२ ⟶ ५१:
* [http://www.madhva.net मध्वाचार्यस्य द्वैतमतविषयेजालस्थानम्]
* [http://www.dvaita.org/madhva/AnandaT_1.html मध्वाचर्यस्य विषये लेखाः]
 
 
 
 
{{सनातनधर्मगुरवः}}
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्