"राघवेन्द्रस्वामी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ११:
|philosophy = [[द्वैतम्]]
|honors =
|quote =
|footnotes =
}}
Line १७ ⟶ १६:
'''श्रीराघवेन्द्रस्वामिपादाः''' (Raghavendra Swami) (१५९५-१६७१), सनातनधर्मस्य माध्वमतसंन्यासिषु प्रमुखाः। तॆ |मध्वाचार्याणां अनुयायिनः भूत्वा मध्वमतं मध्वसिद्धान]] प्रतिपादितवान् । प्रह्लादस्य तृतीयःअवतारः अस्ति श्रीराघवेन्द्रः। द्वितीयः अवतारः [[व्यासरायः|श्रीव्यासरायः]] । राघवेन्द्रस्वामिनां भक्ताः, एतं रायः, गुरुरायः, गुरुराजः इति आह्वयन्ति । एतस्य मूलवृन्दावनं (सशरीरम्) [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] [[तुङ्गभद्रा|तुङ्गानदीतटे]] विद्यमाने [[मन्त्रालयम्|मन्त्रालयक्षेत्रे]] अस्ति । [[कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुतः]] सामान्यतः एकघण्टां यावत् प्रवासः । अत्र सहस्राधिकभक्ताः आगछन्ति । श्रावणमासस्य कृष्णपक्षे प्रतिपत्तः तृतीयातिथिपर्यन्तम् '''आराधनमहोत्सवः''' आचर्यते ।
==पूर्वाश्रमः==
राघवेन्द्रस्वामिनः पूर्वाश्रमस्य नाम वेङकटनाथः। (वेङ्कण्णभट्टः ,वेङ्कटाचार्यः इत्यपि आह्वयन्ति स्म) । एतस्य पितुः नाम तिम्मण्णभट्टः, मातुः नाम गोपिकाम्बा । तिम्मण्णभट्टस्य पितामहस्य नाम कृष्णभट्टः । कृष्णभट्टः वीणावादने परिणतः आसीत् । विजयनगरस्य राज्ञः [[कृष्णदेवरायः|कृष्णदेवरायस्य]] गुरुः अपि । तिम्मण्णभट्टस्य वेङकटनाथं विहाय अन्ये द्वे अपत्ये आस्ताम् । गुरुराजः तथा वेङकटाम्बा इति तयोः नाम । वेङकटनाथस्य १५९५तमे वर्षे [[तमिळ्नाडु|तमिळ्नाडुराज्यस्य]] भुवनगिरिप्रदेशे जन्म अभवत् ।
वेङकटनाथः बाल्यादारभ्य बहु बुद्धिमान् आसीत् । एतस्य पिता अल्पे वयसि दिवङगतः इति कारणतः कुटुम्बस्य दायित्वं अग्रजस्य गुरुराजस्य अभवत् । वेङकटनाथस्य प्रारम्भिकविद्याभ्यसः आवुत्तस्य(वेङ्कटाम्बायाः पतिः) लक्ष्मीनरसिंहस्य समीपे [[मधुरै]]नगरे अभवत् । विद्याभ्यासं समाप्य मधुरैतः प्रत्यागमनानन्तरं एतस्य विवाहः सरस्वतीनामिकया कन्यया सह अभवत् । विवाहानन्तरं [[कुम्भकोणम्|कुम्भकोणं]] प्रति गत्वा सुधीन्द्रस्वामिनः समीपे द्वैतसिद्धान्तस्य उन्नतव्यासङगं कृतवान् । तत्रत्य छात्रेभ्यः [[संस्कृतम्|संस्कृतं]] तथा वेदान् पाठयति स्म । केनापि फलापेक्षेण विना विद्यादानं करोति स्म । तस्य आर्थिकपरिस्तिथिः तावती उत्तमा न आसीत् । बहुवारं पत्नीपुत्राभ्यां सह उपवासः करणीयः भवति स्म । तथापि देवस्य स्मरणं, तस्मिन् विश्वासः च सर्वदा भवति स्म । एकदा पत्नीपुत्राभ्यां सह कस्मिँश्चित् समारम्भे भागं वोढुम् आहुतवन्तः आसन् । ये आहूतवन्तः ते अगौरवेण श्रीगन्धस्य अवघर्षणस्य कार्यं दत्तवन्तः आसन् । वेङकटनाथः विनाखेदं श्रीगन्धस्य अवघर्षणसमये अग्निसूक्तं पठति स्म । अवघर्षितस्य श्रीगन्धस्य लेपनेन विप्राणां शरीरे ज्वलनम् आरब्धम् । कारणं किम् इति ज्ञातुं गृहस्थः वेङकटनाथं पृष्टवन्तः । वेङकटनाथः “अग्नीसूक्तस्य"अग्नीसूक्तस्य उच्चारणं कुर्वन् श्रीगन्धं अवघर्षितवान् , अतः एवं जातं स्यात्” इति उक्तवान् । अनन्तरं गृहस्थः वेङकटनाथस्य क्षमां प्रार्थितवान् । वेङकटनाथः कोपेन, खेदेन विना पुनः श्रीहरिं संप्रार्थ्य वरुणसूक्तं पठितवान् । तदा सर्वेषां शरीरस्थज्वलनस्य शमनम् अभवत् । एतत् वेङकटनाथस्य मन्त्रसिद्धेः तथा सहानुभूत्याः एकम् उदाहरणम् ।
 
==संन्यासाश्रमः==
"https://sa.wikipedia.org/wiki/राघवेन्द्रस्वामी" इत्यस्माद् प्रतिप्राप्तम्